Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 मार्चमासः (हि.स.)। दिल्लीस्थिते इंदिरा गांधी राष्ट्रिय कला केंद्र (आईजीएनसीए) द्वारा मार्चमासस्य २५–२६ तिथ्योः “दशमः राष्ट्रियः जनजातीयः लोकसंस्कृति साहित्य महोत्सवः” आयोज्यते। आईजीएनसीए संस्थया उक्तं यत् कार्यक्रमस्य शुभारम्भः मार्चमासस्य २५ तिथौ प्रातः १० वादनात् भविष्यति।
उद्घाटनसत्रे मुख्यातिथिरूपेण आईजीएनसीएस्य सदस्यसचिवः डॉ. सच्चिदानन्द जोशी उपस्थितो भविष्यति। विशिष्टातिथिरूपेण उत्कलविश्वविद्यालयस्य पूर्वकुलपतिः प्रो. केके मिश्रा सहभागी भविष्यति, अध्यक्षतां च इंदिरा गांधी राष्ट्रीय मानव संग्रहालय भोपालस्य निदेशकः प्रो. अमिताभ पाण्डेयः वहिष्यति।
महोत्सवस्य समापनसमारोहः मार्चमासस्य २६ तिथौ सायं ४ वादनात् आरभ्यते। अस्मिन् अवसरि आईजीएनसीए अध्यक्षः वरिष्ठपत्रकारः राम बहादुर राय मुख्यातिथिरूपेण उपस्थितः भविष्यति। प्रो. अमिताभ पाण्डेयः संगोष्ठ्याः विस्तृतप्रतिवेदनं प्रस्तोष्यति।
अयं कार्यक्रमः कला निधि विभागेन तथा इंदिरा गांधी राष्ट्रिय मानव संग्रहालयेन भोपाले संयुक्तरूपेण आयोज्यते। अस्य कार्यक्रमस्य विषयः अस्ति— “जनजातीय साहित्यं, भाषाः, ज्ञानपरम्पराः तथा सांस्कृतिक धरोहरः”।
अस्मिन् द्विदिवसीये महोत्सवे देशस्य विभिन्नभागेभ्यः आगताः विद्वांसः तथा शोधकर्तारः निम्नलिखितविषयेषु विमर्शं करिष्यन्ति— अमूर्तसांस्कृतिकविरासत्, भारतीयज्ञानप्रणाली, शिक्षा तथा भाषानीतिः, पीढीदरपीढी ज्ञानपरम्परा च।
महोत्सवस्य प्रथमदिनस्य सायंकाले जनजातीयकला तथा लोकाभिव्यक्तीनां सजीवसांस्कृतिकप्रस्तुतयः भविष्यन्ति। द्वितीयदिने लोककलाकाराणां कृते विशेषसंवादसत्रम् आयोज्यते, यस्मिन् पारम्परिकाः कविताः, लोककथाः तथा प्रहेलिकाः अपि साझाः भविष्यन्ति।
इदम्आयोजनं भारतीयसांस्कृतिकअस्मितायाः तथा जनजातीयसमाजस्य सृजनशीलतायाः राष्ट्रियमञ्चे प्रस्तुतीकरणस्य महत्वपूर्णः प्रयासः अस्ति। आईजीएनसीए संस्थया अस्मिन् कार्यक्रमे सर्वान् कला तथा संस्कृतिप्रेमिणः सादरं आमन्त्रिताः।
-------------
हिन्दुस्थान समाचार