नवरात्रौ माता समलेश्वरी-दरबारे श्रद्धालूनां महान् समागमः, तिथ्यनुसारं विशेष-भोगः अर्पितः
जांजगीर-चाम्पानगरम्, २४ मार्चमासः (हि.स.)। चाम्पा-नगरे स्थितं माता-समलेश्वरी-मन्दिरं नवरात्रि-पावन-अवसरे श्रद्धा-भक्त्योः प्रमुखं केन्द्रं जातम् अस्ति, यत्र बहुसंख्यकाः श्रद्धालवः मातुः दर्शनार्थं आगच्छन्ति। जमीन्दार-कुलेन स्थापितस्य अस्य मन्दिरस्य
मां समलेश्वरी माता


जांजगीर-चाम्पानगरम्, २४ मार्चमासः (हि.स.)। चाम्पा-नगरे स्थितं माता-समलेश्वरी-मन्दिरं नवरात्रि-पावन-अवसरे श्रद्धा-भक्त्योः प्रमुखं केन्द्रं जातम् अस्ति, यत्र बहुसंख्यकाः श्रद्धालवः मातुः दर्शनार्थं आगच्छन्ति। जमीन्दार-कुलेन स्थापितस्य अस्य मन्दिरस्य महिमा अत्यन्तं विशिष्टा मन्यते। मान्यता अस्ति यत् नवदाम्पत्य-जीवनस्य आरम्भात् पूर्वं प्रत्येकं युगलं अत्र आगत्य मातुः चरणयोः नमति तथा माता-समलेश्वरी-अनुग्रहं प्राप्य एव नूतन-जीवनस्य आरम्भं करोति।

नवरात्रेः नवसु दिनेषु मन्दिरे तिथ्यनुसारं मात्रे विशेष-भोगाः अर्प्यन्ते, येषां धार्मिक-महत्त्वं पृथक् पृथक् मन्यते। प्रतिपदायां घृत-भोग-अर्पणेन रोगेभ्यः मुक्ति: भवति, द्वितीयायां शर्करा-भोगः दीर्घायुष्यं ददाति, तृतीयायां दुग्ध-भोगः दुःख-नाशं करोति, चतुर्थ्यां मालपुआ-नैवेद्य-अर्पणेन विघ्न-क्लेशाः दूरं भवन्ति। पञ्चम्यां कदली-भोगः बुद्धि-कौशल-वृद्धिं करोति, षष्ठ्यां मधु-अर्पणेन शान्तिः लभ्यते, सप्तम्यां गुड-भोगः शोकं नाशयति, अष्टम्यां नारिकेल-अर्पणेन मानसिक-तापः शम्यति, नवम्यां लाई-भोगः लोक-परलोके सुख-समृद्धिं ददाति। महाष्टमी-रात्रौ मात्रे जम्बीर-माला-अर्पणस्य विशेष-परम्परा अपि अत्र पाल्यते।

एतस्यां श्रेण्यां चैत्र-नवरात्र-अवसरे २५ मार्चमासे २०२६ बुधवासरे माता-कालरात्रि-पूजनस्य भव्य-आयोजनं भविष्यति। एतत् पूजनं रात्रौ ११:०० वादनात् माता समलेश्वरी-मन्दिर-परिसरे सम्पन्नं भविष्यति। आयोजन-समये महानिशा-पूजनं क्रियते तथा मात्रे विशेषरूपेण जम्बीर-माला अर्प्यते। आयोजकानां कथनानुसारं अस्य पूजनस्य फलस्वरूपं श्रद्धालवः मनोवाञ्छित-फलम्, शत्रु-बाधा-मुक्तिं तथा स्थिर-लक्ष्मी-प्राप्तिं लभन्ते।

मन्दिरस्य इतिहासं पण्डितः अतुल-द्विवेदी अवदत् यत् १७६० तमे वर्षे तत्कालीन-जमीन्दारः विश्वनाथ-सिंहः एतस्य मन्दिरस्य निर्माणं कारितवान्। तस्मिन् काले हसदेव-नद्याः पूर्व-भागः ओडिशा-राज्यस्य सम्बलपुर-शासनस्य अधीनः आसीत्, पश्चिम-भागः रतनपुर-शासनान्तर्भूतः आसीत्। उभयोः शासनयोः मध्ये जातस्य युद्धस्य समये चाम्पा-जमीन्दार-कुलस्य पूर्वजाः रतनपुरस्य समर्थनं कृतवन्तः। विजयस्य अनन्तरं एषः प्रदेशः तेभ्यः प्रदत्तः, चाम्पा-जमीन्दारी स्थापिता। ततः धार्मिक-आस्था-रक्षणार्थं सम्बलपुर-प्रसिद्धा समलेश्वरी-देव्याः मन्दिरं चाम्पायां निर्मीय तां कुलदेवी-रूपेण प्रतिष्ठापितवन्तः।

अद्यापि चैत्र-क्वार-नवरात्रयोः अत्र मनोकामना-ज्योति-कलशाः प्रज्वाल्यन्ते तथा जवारा-विसर्जनस्य अपूर्व-परम्परा पाल्यते, यस्मिन् बहुसंख्यकाः श्रद्धालवः सहभागिनः भवन्ति। श्रद्धालूनां विश्वासः अस्ति यत् माता समलेश्वरी-दरबारे सत्य-मनसा याचिता प्रत्येकं मनोकामना अवश्यं पूर्णा भवति।

मन्दिर-समित्या सर्वेभ्यः श्रद्धालुभ्यः आह्वानं कृतं यत् ते सपरिवारं उपस्थाय माता-कालरात्रि-पूजने सहभागी भूत्वा मातुः आशीर्वादं प्राप्नुयुः। आयोजनस्य कृते मन्दिर-परिसरे व्यापक-सज्जाः सम्पन्नाः सन्ति।

हिन्दुस्थान-समाचारः / लालिमा शुक्ला पुरोहितः।

हिन्दुस्थान समाचार / अंशु गुप्ता