रामनवमी-उत्सवं प्रति हीरापुर-थानायां शान्ति-सभा आयोजिताऽभवत्, प्रशासनेन कठोर-निर्देशाः निर्गताः
आसनसोलनगरम्, २४ मार्चमासः (हि.स.)।हीरापुर-थानाध्यक्षः करतारसिंहः सोमवासरे थाना-परिसरस्थे सभागारे रामनवमी-उत्सवं प्रति महत्त्वपूर्णां शान्ति-सभाम् आयोजितवान्। अस्यां सभायां क्षेत्रस्य सर्वासां चतुर्दश-अखाड़ा-समितिनां प्रतिनिधयः उपस्थिताः आसन्। सभाय
बैठक करते पुलिस अधिकारी


आसनसोलनगरम्, २४ मार्चमासः (हि.स.)।हीरापुर-थानाध्यक्षः करतारसिंहः सोमवासरे थाना-परिसरस्थे सभागारे रामनवमी-उत्सवं प्रति महत्त्वपूर्णां शान्ति-सभाम् आयोजितवान्। अस्यां सभायां क्षेत्रस्य सर्वासां चतुर्दश-अखाड़ा-समितिनां प्रतिनिधयः उपस्थिताः आसन्।

सभायाः समये थानाध्यक्षेन सर्वाः समितयः निर्देशिताः यत् रामनवमी-अवसरे निर्गमिष्यमाणा शोभायात्रा शान्तिपूर्ण-सौहार्दपूर्ण-वातावरणे सम्पन्ना भवेत्। तेन स्पष्टतया उक्तं यत् प्रशासनिक-निर्देशानां कठोरतया पालनम् अनिवार्यं भविष्यति तथा कस्यापि प्रकारस्य अव्यवस्था सह्यं न भविष्यति।

तेन उक्तं यत् शोभायात्रायां कस्यापि प्रकारस्य अस्त्र-शस्त्र-प्रदर्शनं पूर्णतया निषिद्धं भविष्यति। सहैव डीजे-वादनम् अपि प्रतिबन्धितं भविष्यति। संचलनं स्व-निर्धारित-मार्गेण एव गमिष्यति, यः शिव-स्थान-मन्दिर-परिसरात् आरभ्य स्टेशन-मार्गं, बारी-प्राङ्गणं, बस-स्थानकं च गत्वा पुनः शिव-मन्दिरे एव समाप्तिं गमिष्यति।थानाध्यक्षेन एतदपि सूचितं यत् अखाड़ा-समितिभिः सह हीरापुर-थानायाः नामित-नोडल-अधिकारी समन्वयं कृत्वा कार्यं करिष्यति, येन आयोजनं सुचारुरूपेण सम्पन्नं भवेत्।

सभायां सर्वेभ्यः प्रतिनिधिभ्यः अपि निवेदनं कृतं यत् कस्यापि प्रकारस्य आपत्तिजनक-गीतस्य सामग्र्याः वा उपयोगः न क्रीयताम्, येन कस्याश्चित् साम्प्रदायिक-भावनाः आहताः स्युः। रामनवमी-अवसरे केवलं धार्मिक-ध्वजानां प्रदर्शनं भविष्यति, किन्तु कस्यापि राजनैतिक-दलस्य विज्ञापनस्य वा प्रदर्शनं पूर्णतया निषिद्धं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता