Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 मार्चमासः (हि.स.)। ग्रामीणेषु क्षेत्रेषु दृढपारदर्शी च समुदायाधारित पेयजल आपूर्तिव्यवस्थां सुदृढीकर्तुं आन्ध्रप्रदेश तथा ओडिशा राज्ययोः सर्वकारौ केन्द्रसर्वकारेण सह सहमतिपत्रे हस्ताक्षरं कृतवन्तौ। एषःपादो जलजीवनमिशन 2.0 अन्तर्गतं प्रत्येकं गृहम् सुरक्षितपेयजलप्राप्तये महत्वपूर्णा पहल इति मन्यते।
केन्द्रीयजलशक्तिमन्त्रिणः सीआर पाटिलस्य उपस्थितौ उभयोः राज्ययोः एतत् समझौतं सम्पन्नम्। आन्ध्रप्रदेशस्य पक्षतः मुख्यमंत्री नारा चन्द्रबाबू नायडू तथा उपमुख्यमंत्री के पवन कल्याणः सहभागितां कृतवन्तौ, ओडिशाराज्यस्य पक्षतः मुख्यमंत्री मोहन चरण माझी तथा वरिष्ठाधिकारीणः आभासीमाध्यमेन सहभागीभूताः।
अस्मिन् अवसरस्य सन्दर्भे सीआर पाटिल उक्तवान् यत् जलजीवनमिशन 2.0 इत्यस्य केन्द्रबिन्दुः अवशिष्टगृहेषु नलकनेक्शनप्रदानम्, वर्तमानसंरचनायाः न्यूनतानां निवारणम् तथा टिकाऊजलआपूर्तिव्यवस्थाया निर्माणम् अस्ति। तेन योजनानां औपचारिकरूपेण समुदायेषु हस्तांतरणम्, महिलानां जलगुणवत्तापरीक्षणे प्रशिक्षणम् तथा जलसंरक्षणं भूजलपुनर्भरणं च विशेषतः प्रतिपादितम्।
आन्ध्रप्रदेशस्य मुख्यमंत्री नायडू उक्तवान् यत् राज्यसर्वकारः प्रत्येकं गृहम् नलद्वारा जलप्रदानाय प्रतिबद्धा अस्ति तथा मिशनं निश्चितसमये सम्पन्नं कर्तुं सज्जा अस्ति। ओडिशाराज्यस्य मुख्यमंत्री माझी अपि एतत् प्रत्येकं गृहम् जलं विकसितभारत 2047 इत्यस्य लक्ष्यस्य दिशि महत्वपूर्णं कदम इति उक्तवान्। तेन उक्तं यत् राज्यं ‘सुजल भारत’ इति डिजिटलमञ्चे जलआपूर्तिसंपत्तीनाम् अभिलेखनं करोति तथा ग्रामेभ्यः अद्वितीयपरिचयसंख्या दीयते येन निगरानी उत्तरदायित्वं च सुदृढं भवेत्।
-------------
हिन्दुस्थान समाचार