Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, २४ मार्चमासः (हि.स.)। छत्तीसगढ-राज्यस्य राजधान्यां रायपुर-नगरे २५ मार्चमासे ‘खेलो-इण्डिया-राष्ट्रीय-जनजातीय-क्रीडा-प्रतियोगितायाः’ भव्य-उद्घाटनं क्रीडा-संचालनालय-परिसर-प्राङ्गणे आयोजितं भविष्यति। आयोजनस्य कृते सज्जाः अन्तिम-चरणे सन्ति तथा प्राङ्गणे आकर्षक-मञ्चः साज-सज्जा च क्रियते।
उद्घाटन-समारोहं आकर्षकं कर्तुं छत्तीसगढस्य पारम्परिक-लोक-कलाकाराः वाद्ययन्त्राणि च समाविष्टानि सन्ति। सहैव विभिन्न-राज्येभ्यः आगच्छतां दलानां संचलनम् अपि भविष्यति, यस्य कृते नाम-पट्टिकाः सज्जीकृताः सन्ति। प्रतियोगितायाः स्पर्धाः अन्ताराष्ट्रिय-हॉकी-स्टेडियम्, अन्ताराष्ट्रिय-सन्तरण-तलम् (सेन्ट्रल-लाइब्रेरी-समीपे) तथा कोटा-स्टेडियम् इत्येतेषु स्थानेषु आयोजिताः भविष्यन्ति। धनुर्विद्या-क्रीडायाः कृते उद्घाटन-स्थले एव पृथक् क्षेत्रं निर्मितम्, यत्र इण्डियन-आर्चरी, रिकर्व-तथा कम्पाउण्ड-वर्गयोः स्पर्धाः भविष्यन्ति।अस्य आयोजनस्य विषये प्रदेशस्य उप-मुख्यमन्त्री तथा क्रीडा-मन्त्री अरुण-सावः अद्य मङ्गलवासरे अपराह्णे १:३० वादने साइंस-कॉलेज-स्थिते क्रीडा-संचालनालय-परिसरे पत्रकार-सम्मेलनं कृत्वा विस्तृतां सूचनां दास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता