Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 मार्चमासः (हि.स.)। केन्द्रीयजलशक्तिराज्यमन्त्री राजभूषणचौधरी उक्तवान् यत् गङ्गानद्याः संरक्षणाय स्वच्छतायै च स्थानीयसमुदायस्य युववर्गस्य च संयोजनार्थं “नेशनल मिशन फॉर क्लीन गंगा” इत्यस्य अन्तर्गतं “गङ्गाप्रहरी कैडर” इति गठनं कृतम् अस्ति। अस्य कैडरस्य मुख्यलक्ष्यं जनसामान्यस्य गङ्गानद्याः संरक्षणे स्वच्छतायां च प्रति जागरूकतां वर्धयितुं, तस्य मिशने सक्रियसहभागिता सुनिश्चितं कर्तुं च अस्ति।
मन्त्री चौधरी एतत् विवरणं राज्यसभायाः सांसद इन्दुबाला गोस्वामी महोदया द्वारा पृष्टस्य प्रश्नस्य उत्तररूपेण सभायां दत्तवान्। सः अवदत् यत् अस्मिन् मिशने विविधाः जागरूकताअभियानाः आयोजिताः सन्ति, तथा च गतत्रिषु वर्षेषु एतेषां अभियानेषु समष्ट्या १७.६८ कोटिरूप्यकाणि व्ययितानि सन्ति।
तेन उक्तं यत् “नेशनल मिशन फॉर क्लीन गंगा” इत्यस्य आधीनतया गङ्गातटे गङ्गोत्सवः, स्वच्छतापखवाडः, घाटेषु योगकार्यक्रमाः, विश्वपर्यावरणदिवसस्य आयोजनम्, स्वच्छताअभियानानि च सम्पन्नानि सन्ति, येन स्थानीयसमुदायः युववर्गश्च संयोजिताः सन्ति।
तथा च सः अवदत् यत् अस्य उद्देशस्य पूर्तये “नेशनल मिशन फॉर क्लीन गंगा” इत्यनेन सीमा सुरक्षा बलस्य सह समन्वयेन देवप्रयागात् गङ्गासागरपर्यन्तं सर्वनारीनदीराफ्टिंगकार्यक्रमः आयोजितः।
अस्य मिशनस्य अन्तर्गतं गङ्गानद्याः जीर्णोद्धारे बालकान् छात्रांश्च संयोजयितुं विविधैः विश्वविद्यालयैः, महाविद्यालयैः, प्रशिक्षणसंस्थाभिः तथा “सेंटर फॉर साइंस एंड एनवायरनमेंट” इत्यनेन सह साझेदारी आरब्धा।
गङ्गानद्याः जीर्णोद्धारे स्थानीयसमस्याः प्रभावीरीत्या निवारयितुं तेषु १३९ जनपदेषु, येषां माध्यमेन गङ्गा प्रवहति, “जिलागङ्गासमितयः” अपि स्थापिताः सन्ति।
हिन्दुस्थान समाचार