पश्चिम एशियायां भारतस्य तीक्ष्णदृष्टिः , ऊर्जा-आपूर्तिः सामान्या, नागरिकानां सुरक्षितं निवर्तनं सक्रियम् - विदेशमंत्रालयः
नव दिल्ली, 24 मार्चमासः (हि.स.)। पश्चिम एशियायाम् अमेरिका इज़रायल तथा ईरानयोः मध्ये प्रवर्तमानस्य संघर्षस्य तथा तीव्रतया परिवर्तमानानां परिस्थितीनां विषये भारतस्य सूक्ष्मा दृष्टिः अस्ति। सरकारः देशे ऊर्जा सुरक्षा सुनिश्चितुं स्रोतविविधतां वर्धयित्व
विदेश मंत्रालय में संयुक्त सचिव (गल्फ) असीम महाजन और विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल मंगलवार को  पश्चिम एशिया में हाल के घटनाक्रमों पर अंतर-मंत्रालयी संवाददाता सम्मेलन में


नव दिल्ली, 24 मार्चमासः (हि.स.)। पश्चिम एशियायाम् अमेरिका इज़रायल तथा ईरानयोः मध्ये प्रवर्तमानस्य संघर्षस्य तथा तीव्रतया परिवर्तमानानां परिस्थितीनां विषये भारतस्य सूक्ष्मा दृष्टिः अस्ति। सरकारः देशे ऊर्जा सुरक्षा सुनिश्चितुं स्रोतविविधतां वर्धयित्वा खाड़ीदेशेषु स्थितानां भारतीयनागरिकाणां वैकल्पिकमार्गैः सुरक्षितप्रत्यागमनाय गम्भीरतया कार्यं करोति।

पश्चिम एशियायाः नवीनघटनाक्रमानां विषये मंगलवासरे आयोजिते अन्तरमन्त्रालयीय संवाददाता सम्मेलन मध्ये विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवाल उक्तवान् यत् भारतसरकारः तत्र प्रवर्तमानान् घटनाक्रमान् निरन्तरं निरीक्षते तथा ऊर्जा सुरक्षा भारतीयनागरिकाणां सुरक्षितप्रत्यागमनं च सर्वोच्चप्राथमिकतायां स्थापयति। अद्यपर्यन्तं प्रायः चत्वारि लक्षाणि विंशतिसहस्राधिकाः भारतीयाः स्वदेशं प्रत्यागताः।

प्रवक्ता अवदत् यत् विदेशमन्त्रीनाऽधुना अमेरिकी विदेशमन्त्री श्रीलङ्कादेशस्य च समकक्षेण सह संवादः कृतः यत्र क्षेत्रीयस्थिति वैश्विकार्थव्यवस्थायाः प्रभावः ऊर्जा सुरक्षा च इत्यादिषु विषयेषु चर्चा जाता।

जायसवाल अवदत् यत् विदेशमन्त्री एस जयशंकर खाड़ी सहयोग परिषदस्य राजदूतैः सह अपि मिलित्वा वर्तमानपरिस्थितेः विषये विचारविमर्शं कृतवान् तथा तत्र वसतां भारतीयसमुदायस्य साहाय्ये कृतसहयोगाय तेषां प्रति कृतज्ञतां व्यक्तवान्। सः उक्तवान् यत् भारतं स्वस्य प्रतिवेशी प्रथम नीतिः तथा विजन महासागर इत्यस्य अन्तर्गतं क्षेत्रीयसहयोगवर्धने प्रतिबद्धम् अस्ति।

विदेशमन्त्रालयस्य संयुक्तसचिवः असीम महाजन उक्तवान् यत् पश्चिम एशियायाः विभिन्नदेशेभ्यः भारतगमनाय विमानयात्राः यथावत् प्रवर्तन्ते। संयुक्त अरब अमीरात देशात् प्रायः पञ्चाशीत्यधिकाः विमानयात्राः अपेक्षिताः सन्ति, ओमान तथा सऊदी अरब देशाभ्यां अपि नियमिताः उड्डयनसेवाः प्रवर्तन्ते। कतारदेशस्य आकाशमार्गः आंशिकतया उद्घाटितः अस्ति यतः सीमितसंख्यकाः विमानयात्राः क्रियन्ते, किन्तु कुवैत तथा बहरीन देशयोः आकाशमार्गः अस्मिन् समये निरुद्धः अस्ति।

महाजन अवदत् यत् भारतीयनागरिकाणां सुरक्षितप्रत्यागमनाय वैकल्पिकमार्गाः उपयुज्यन्ते। ईरानदेशात् भारतीयाः आर्मेनिया तथा अजरबैजान मार्गेण आनय्यन्ते, इज़रायलदेशात् जॉर्डन मार्गेण प्रत्यागमनं क्रियते। कुवैत बहरीन इराकदेशेभ्यः यात्रायाः बाधा कारणात् सऊदी अरब मार्गेण अपि प्रत्यागमनं सुनिश्चितं क्रियते। अद्यपर्यन्तं चतुर्लक्षाधिकाः विंशतिसहस्राधिकाः भारतीयाः सुरक्षिततया स्वदेशं प्रत्यागताः।

पेट्रोलियम प्राकृतिक गैस मन्त्रालयस्य संयुक्तसचिवा सुजाता शर्मा अवदत् यत् देशस्य सर्वेषु पेट्रोल पम्पेषु सामान्यरूपेण कार्यं प्रवर्तते तथा पेट्रोल डीजल इत्योः पर्याप्ता उपलब्धता अस्ति। सा जनान् प्रति आह्वानं कृतवती यत् अफवाहासु विश्वासं मा कुर्वन्तु तथा आकस्मिकक्रयात् निवर्तन्ताम्।

सा अवदत् यत् पेट्रोलियम प्राकृतिक गैस नियामक बोर्डेन सिटी गैस वितरण कंपन्यः निर्देशिताः यत् यत्र पाइपलाइन व्यवस्था अस्ति तत्र पञ्चदिनेषु एव विद्यालयेषु महाविद्यालयेषु छात्रावासेषु सामुदायिकपाकशालासु आंगनवाड़ी केन्द्रेषु च पीएनजी संयोजनं प्रदातव्यम्।

एलपीजी आपूर्तेः विषये सा अवदत् यत् वर्तमानभूराजनीतिकपरिस्थितीनां कारणात् किञ्चित् प्रभावः जातः अस्ति, किन्तु पर्याप्ताः वहनयानाः मार्गे सन्ति तथा कस्यापि वितरकस्य अभावः नास्ति। किञ्चित् स्थानेषु जनानां भीतिजन्य बुकिंग दृष्टा, तथापि आपूर्ति वितरणं च सामान्यतया प्रवर्तते। सर्वेभ्यः गृहउपभोक्तृभ्यः एलपीजी सिलिण्डराः प्रदीयन्ते तथा पीएनजी आपूर्ति अपि निर्बाधा अस्ति।

पोत बंदरगाह जलमार्ग मन्त्रालयस्य विशेषसचिवः राजेश कुमार सिन्हा अवदत् यत् खाड़ी क्षेत्रे सर्वे भारतीय पोताः नाविकाः च सुरक्षिताः सन्ति तथा गतचतुर्विंशतिघण्टासु कापि समुद्री घटना न ज्ञाता। भारतीय ध्वजधारिणौ द्वौ एलपीजी पोतौ पाइन गैस तथा जग वसंत सुरक्षिततया होरमुज जलडमरूमध्यं अतिक्रम्य भारतं प्रति गच्छतः।

पाइन गैस नाम पोतः प्रायः पञ्चचत्वारिंशत्सहस्र मेट्रिक टन एलपीजी वहन् सप्तविंशतितमे मार्च दिने न्यू मैंगलोर बंदरगाहं प्राप्स्यति इति सम्भावना अस्ति, जग वसंत नाम पोतः च षट्चत्वारिंशत्सहस्र षट्शतमितः मेट्रिक टन एलपीजी सहितः षड्विंशतितमे मार्च दिने कांडला बंदरगाहं प्राप्स्यति। अधुना फारस खाड़ी क्षेत्रे विंशतिः भारतीय ध्वजधारिणः पोताः सन्ति, येषु पञ्चशतचत्वारिंशत् भारतीय नाविकाः सन्ति।

राजेश कुमार सिन्हा अपि अवदत् यत् कस्यापि भारतीय बंदरगाहे संमर्दस्थितिः नास्ति तथा सर्वैः प्रमुखैः उपप्रमुखैः बंदरगाहैः सह निरन्तरं समन्वयः क्रियते। गतचतुर्विंशतिघण्टासु जहाजरानी महानिदेशालयस्य नियंत्रणकक्षे १४६ दूरभाषया आह्वानानि २२६ ईमेलाः च प्राप्ताः येषां समये निवारणं कृतम्। अस्मिन् एव अवधौ षट्विंशतिः भारतीय नाविकाः खाड़ी क्षेत्रात् सुरक्षिततया स्वदेशं प्रत्यागताः।

सरकारेण पुनः स्पष्टं कृतम् यत् देशे ऊर्जा आपूर्ति पूर्णतया सामान्यावस्थायां अस्ति तथा नागरिकानां कापि चिन्ता आवश्यकाऽनास्ति। जनान् प्रति अपि आह्वानं कृतम् यत् ते अफवाहाभ्यः दूरं तिष्ठन्तु आधिकारिकसूचनासु एव विश्वासं कुर्वन्तु।

---------------

हिन्दुस्थान समाचार