Enter your Email Address to subscribe to our newsletters

अजमेरम्, 24 मार्चमासः (हि.स.)।
राजस्थानमाध्यमिकशिक्षामण्डलेन (आरबीएसई) मङ्गलवासरे दशमकक्षायाः परीक्षाफलम् प्रकाशितम्। अस्मिन् वर्षे समग्रपरिणामः ९४.२३ प्रतिशतः अभवत्, यः गतवर्षस्य ९३.०६ प्रतिशततः १.१७ प्रतिशतेन अधिकः अस्ति।
अजमेरनगरस्थितात् माध्यमिकशिक्षामण्डलकार्यालयात् शिक्षामन्त्री मदन दिलावर अपराह्णे प्रायः एकवादने परिणामस्य घोषणा कृतवान्। अस्मिन् अपि वर्षे बालिकाः परिणामे अग्रे आसन्। बालकानां परिणामः ९३.६३ प्रतिशतः, बालिकानां तु ९४.९० प्रतिशतः अभवत्।
परिणामस्य प्रकाशनानन्तरं तत्क्षणमेव मण्डलस्य आधिकारिकजालपुटं कतिपयेषु स्थलेषु मन्दं जातम् अथवा उद्घाटने कठिनता जाता। तेन बहवः विद्यार्थी स्वपरिणामं द्रष्टुं क्लेशम् अनुभवन्ति स्म।
एतत् प्रथमवारम् यत् दशमकक्षायाः परिणामः द्वादशकक्षाया पूर्वमेव प्रकाशितः। तथा च मार्चमासे परिणामघोषणा अपि मण्डलस्य इतिहासे प्रथमवारं जाता।
राज्यसर्वकारेण एकादशदिने (१ एप्रिल्) आरभ्यमाणस्य नूतनशैक्षणिकसत्रस्य निर्देशानुसारं अस्मिन् वर्षे परिणामः समयात् पूर्वमेव प्रकाशितः। अस्मिन् वर्षे दशमकक्षायाः परीक्षायां १० लक्ष ६८ सहस्र १०९ विद्यार्थी भागं गृहीतवन्तः। परीक्षाः १२ फरवरीतः आरब्धाः आसन्।
---------------
हिन्दुस्थान समाचार