राजस्थानशिक्षापरिषदः 10कक्षायाः परिणामोऽद्य मध्याह्ने निर्गमिष्यति, 8कक्षायाः अथ च 5कक्षायाः परिणामोऽपि सममेव
अजमेरम्, 24 मार्चमासः (हि.स.)। राजस्थानमाध्यमिकशिक्षामण्डलम् (आरबीएसई) अद्य दशमकक्षायाः परीक्षाफलम् प्रकाशितुं सज्जम् अस्ति। मण्डलेन अस्य सर्वाणि आयोजनकार्याणि सम्पन्नानि। मध्याह्ने प्रायः एकवादने अजमेरस्थे मण्डलकार्यालये शिक्षामन्त्री मदनदिलावरः प
फाइल


अजमेरम्, 24 मार्चमासः (हि.स.)। राजस्थानमाध्यमिकशिक्षामण्डलम् (आरबीएसई) अद्य दशमकक्षायाः परीक्षाफलम् प्रकाशितुं सज्जम् अस्ति। मण्डलेन अस्य सर्वाणि आयोजनकार्याणि सम्पन्नानि। मध्याह्ने प्रायः एकवादने अजमेरस्थे मण्डलकार्यालये शिक्षामन्त्री मदनदिलावरः परिणामस्य आधिकारिकघोषणां करिष्यति।

विशेषतया एतत् उल्लेखनीयम् यत् अस्मिन् वर्षे दशमकक्षया सहैव अष्टमकक्षायाः पञ्चमकक्षायाश्च परिणामाः अपि अद्यैव प्रकाशिताः भविष्यन्ति। मण्डलस्य इतिहासे एषः प्रथमः अवसरः यदा दशमकक्षायाः परिणामः द्वादशकक्षायाः पूर्वं घोषितः भवति। तथा च मार्चमासे परिणामप्रकाशनम् अपि नवीनः अभिलेखः मन्यते।

राज्यसर्कारेण एकादशदिनाङ्कात् नवीनशैक्षणिकसत्रस्य आरम्भाय निर्देशाः दत्ताः। तस्य कारणेन मण्डलेन परिणामसम्बद्धाः सर्वाः प्रक्रियाः शीघ्रतया सम्पन्नाः कृत्वा समयात् पूर्वं परिणामप्रकाशनस्य निर्णयः कृतः।

अस्मिन् वर्षे दशमकक्षायाः परीक्षायां १०६८१०९ विद्यार्थीभागिनः आसन्। अष्टमकक्षायां १२८६००० तथा पञ्चमकक्षायां १३६८००० विद्यार्थी पञ्जीकृताः सन्ति। अष्टमकक्षायाः परीक्षाः २० फरवरीतः ४ मार्चपर्यन्तम् आयोजिताः, पञ्चमकक्षायाः परीक्षाः च २० फरवरीतः ६ मार्चपर्यन्तम् सम्पन्नाः।

---------------

हिन्दुस्थान समाचार