Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ मार्चमासः (हि.स.)। भारतीय-महिला-क्रिकेट-दलस्य दक्षिण-अफ्रीका-प्रवासस्य कृते दलस्य घोषणा कृता। चयन-समित्याः पञ्च-टी२०-अन्ताराष्ट्रिय-स्पर्धानां शृङ्खलायै संतुलितं सुदृढं च दलं चयनितम्, यस्य नेतृत्वं हरमनप्रीत-कौर-इत्यस्यै समर्पितम्, उप-कप्तान-कर्तव्यं च स्मृति-मन्धाना निर्वहिष्यति।
दले शेफाली-वर्मा, जेमिमा-रोड्रिग्स, दीप्ति-शर्मा तथा ऋचा-घोष-इत्यादयः अनुभवी-क्रीडिकाः सम्मिलिताः सन्ति, याः बल्लेबाजी-विभागं सुदृढं करिष्यन्ति। अपरतः कन्दूक-प्रक्षेपण-विभागे रेणुका-ठाकुरः, अरुन्धति-रेड्डी तथा श्रेयंका-पाटिल-इत्येताः दलं संतुलनं ददति। अतिरिक्तं कतिपयाः युवा-क्रीडिकाः अपि अवसरं प्राप्तवन्तः, यासु काश्वी-गौतमः, क्रान्ति-गौडः तथा श्री-चारणी समाविष्टाः सन्ति।
भारत-दक्षिण-अफ्रीका-देशयोः मध्ये एषा टी-२०-शृङ्खला १७ अप्रैलमास २०२६ तः आरम्भा भविष्यति। शृङ्खलायाः द्वितीया स्पर्धा १९, तृतीया २२ तथा चतुर्थी २५ अप्रैलमासे भविष्यति।
प्रथमा द्वितीया च स्पर्धे डरबन-नगरे भविष्यतः, तृतीया चतुर्थी च जोहान्सबर्ग-नगरे आयोजिते भविष्यतः। शृङ्खलायाः पञ्चमा अन्तिमा च स्पर्धा २७ अप्रैलमासे भविष्यति। सर्वाः स्पर्धाः भारतीय-समयानुसारं सायं रात्रौ च खेलिष्यन्ते, येन भारतीय-दर्शकानामपि कृते एषा शृङ्खला आकर्षणस्य केन्द्रं भविष्यति।
अयं प्रवासः अग्रिम-अन्ताराष्ट्रिय-प्रतियोगितानां सज्जा-दृष्ट्या अत्यन्तं महत्त्वपूर्णः मन्यते, तथा भारतपक्षः अस्यां शृङ्खलायां उत्कृष्टं प्रदर्शनं कृत्वा स्व-सज्जां सुदृढां कर्तुम् इच्छति।
भारतीय-दलम् -
हरमनप्रीत-कौरः (नायिका), स्मृति-मन्धाना (उपनायिका), शेफाली-वर्मा, जेमिमा-रोड्रिग्स, दीप्ति-शर्मा, ऋचा-घोषः (विकेट-रक्षिका), अरुन्धति-रेड्डी, रेणुका-ठाकुरः, क्रान्ति-गौडः, श्री-चारणी, श्रेयंका-पाटिलः, काश्वी-गौतमः, भारती-फुलमाली, उमा-छेत्री (विकेट-रक्षिका), अनुष्का-शर्मा।
हिन्दुस्थान समाचार / अंशु गुप्ता