जम्मू-दिल्लीद्रुतगामिमार्गे संचारगुणवत्तायां निजसंस्थाः अग्रे, बीएसएनएल पृष्ठे
नव दिल्ली, 24 मार्चमासः (हि.स.)। दूरसञ्चारनियामकप्राधिकरणेन ट्राई इत्यनेन २०२६ वर्षस्य फेब्रुवारी मासे जम्मूनगरस्य परितः तथा दिल्लीजम्मूराष्ट्रीयराजमार्गे सञ्चारितस्य जालगुणवत्ताया निरीक्षणं कृतम्। अस्मिन् परीक्षणे कॉलसेटअपसफलतादरः ९८.८३ प्रतिशता
ट्राई


नव दिल्ली, 24 मार्चमासः (हि.स.)।

दूरसञ्चारनियामकप्राधिकरणेन ट्राई इत्यनेन २०२६ वर्षस्य फेब्रुवारी मासे जम्मूनगरस्य परितः तथा दिल्लीजम्मूराष्ट्रीयराजमार्गे सञ्चारितस्य जालगुणवत्ताया निरीक्षणं कृतम्। अस्मिन् परीक्षणे कॉलसेटअपसफलतादरः ९८.८३ प्रतिशतात् ९९.२६ प्रतिशतपर्यन्तं आसीत्, कॉलड्रॉपदरः ०.६० प्रतिशतात् ७.८७ प्रतिशतपर्यन्तं अभिलिखितः, यदा औसतडाउनलोडगत्या विषये रिलायन्सजियो २९५.९० एमबीपीएस सहितः श्रेष्ठस्थाने आसीत्।

प्राधिकरणस्य अनुसारं ०२ फेब्रुवारीतः ०५ फेब्रुवारी २०२६ पर्यन्तं एतत् परीक्षणं सम्पन्नम्। अस्मिन् कालखण्डे १७८.२ किलोमीटरपरिमितं नगरीयवाहनपरीक्षणं तथा ६२०.५ किलोमीटरपरिमितं राजमार्गवाहनपरीक्षणं कृतम्। अतिरिक्तरूपेण ०६ हॉटस्पॉटेषु तथा ३.५ किलोमीटरपरिमिते पदयात्रापरीक्षणे अपि कृतम्। समग्रतः १०१ स्थानेषु विभिन्नपरिस्थितिषु जालस्य मूल्याङ्कनं कृतम्।

अस्य प्रतिवेदने २जी, ३जी, ४जी, ५जी इत्यादिषु प्रौद्योगिकीषु वाणीसेवाः तथा दत्तांशसेवाः परीक्षणीयाः आसन्। वाणीसेवायां कॉलसेटअपसफलतादरः, कॉलड्रॉपदरः तथा वाणिगुणवत्ता मापिता, दत्तांशसेवायां तु डाउनलोडअपलोडगतिः तथा लेटेंसी इत्यस्य मूल्याङ्कनं कृतम्।

कॉलसेटअपसफलतादरे एयरटेल ९८.८३ प्रतिशत, बीएसएनएल ८१.६२ प्रतिशत, रिलायन्सजियो ९९.१२ प्रतिशत, वोडाफोनआइडिया ९९.२६ प्रतिशत इति अभिलिखितम्। कॉलड्रॉपदरे रिलायन्सजियो ०.६० प्रतिशतेन श्रेष्ठः आसीत्, एयरटेल ०.७४ प्रतिशत, वोडाफोनआइडिया १.१८ प्रतिशत, बीएसएनएल ७.८७ प्रतिशत इति स्थिताः।

दत्तांशसेवायां औसतडाउनलोडगत्या विषये रिलायन्सजियो २९५.९० एमबीपीएस सहितः अग्रे आसीत्। एयरटेल १७९.५३ एमबीपीएस सहितः द्वितीयस्थाने आसीत्। वोडाफोनआइडिया तथा बीएसएनएल क्रमशः २५.३४ एमबीपीएस तथा ११.३० एमबीपीएस इति अभिलिखितम्।

औसतअपलोडगत्या विषये रिलायन्सजियो ३०.५० एमबीपीएस तथा एयरटेल ३०.०९ एमबीपीएस इति प्रायः समानौ आस्ताम्। वोडाफोनआइडिया १६.३९ एमबीपीएस तथा बीएसएनएल ३.८६ एमबीपीएस इति अभिलिखितम्।

लेटेंसीमानकेषु रिलायन्सजियो २२.८४ मिलीसेकण्डेन श्रेष्ठः आसीत्। एयरटेल २७.९४ मिलीसेकण्ड, बीएसएनएल २९.७२ मिलीसेकण्ड, वोडाफोनआइडिया ४३.३८ मिलीसेकण्ड इति अभिलिखितम्।

---------------

हिन्दुस्थान समाचार