Enter your Email Address to subscribe to our newsletters

वाशिंगटनम्/तेहरानम्, 24 मार्चमासः (हि.स.)।
गत-मासस्य २८ फरवरी-दिनाङ्कात् आरभ्य प्रवृत्तस्य युद्धस्य मध्ये तेहराननगराय मध्यस्थैः माध्यमेन वाशिंगटनतः सन्देशः प्राप्तः अस्ति। एषः सन्देशः अमेरिका-ईरानयोः मध्ये सम्भाव्यवार्तालापस्य आरम्भस्य सूचकः भवितुम् अर्हति। ईरानदेशस्य विदेशमन्त्रालयस्य कश्चन वरिष्ठ-अधिकारी सोमवासरे एतत् अवदत्।
सीबीएस-न्यूज्-प्रतिवेदनानुसारं सः अधिकारी अवदत्— “अस्मभ्यं मध्यस्थैः माध्यमेन अमेरिकातः किञ्चित् सार्थकं प्राप्तम्। वयं तस्य समीक्षां कुर्मः।” अस्मात् पूर्वं राष्ट्रपति डोनाल्ड ट्रम्प इत्यनेन संकेतः दत्तः आसीत् यत् उभयदेशयोः मध्ये सहमतिः सम्भवा अस्ति।
ट्रम्प-महोदयेन सामाजिक-माध्यमेषु उद्घोषितम् यत् अमेरिका-ईरानयोः मध्ये वैरस्य पूर्णतया समाप्तेः विषये अत्युत्तमा सार्थका च वार्ता जाता अस्ति। अनन्तरं पत्रकारैः सह संवादे तेन उक्तम् यत् उभयपक्षयोः मध्ये प्रायः पञ्चदश-विषयेषु सहमति जाता अस्ति।
अनन्तरं ईरानी-अधिकारिणः उक्तवन्तः यत् “ते शान्तिम् इच्छन्ति।” राष्ट्रपति ट्रम्प सप्ताहान्ते ईरानदेशाय प्रदत्ता धमकी अपि प्रत्याहृतवान्। पूर्वं तेन उक्तम् आसीत् यत् यदि ४८ घण्टाभ्यन्तरे ईरानदेशः होर्मुज-जलडमरूमध्यं न उद्घाटयति तर्हि तस्य विद्युत्-उत्पादन-केन्द्रेषु आक्रमणं क्रियते।
प्रारम्भे ईरानस्य विदेशमन्त्रालयेन उभयदेशयोः मध्ये कस्यापि वार्तालापस्य अस्तित्वं निराकृतम् आसीत्। अधुना तु ट्रम्पस्य वक्तव्यैः एषा आशा उत्पन्ना यत् सैन्य-संघर्षः शीघ्रमेव समाप्तेः समीपे भवितुम् अर्हति।
एतत् अपि महत्वपूर्णम् यत् ईरान-अमेरिकयोः मध्ये औपचारिक-राजनयिक-सम्बन्धाः न सन्ति। तथापि ऐतिहासिकतया तौ परोक्षरूपेण एव परस्परं संवादं कुर्वन्तौ स्तः।
ट्रम्प-महोदयेन पत्रकारैः उक्तम् यत् अमेरिका ईरानदेशस्य कस्यचित् उच्च-स्तरीय-व्यक्तिना सह वार्तां कुर्वति, किन्तु सः सर्वोच्च-नेता अयातुल्ला मोजतबा खामेनेई नास्ति। तेन तस्य व्यक्तेः नाम उक्तुं न स्वीकृतम्।
ट्रम्पेन अपि उक्तम् यत् ईरानदेशः परमाणु-शस्त्र-निर्माणं न कर्तुं सहमतः अभवत्। अस्मात् पूर्वं सः निरन्तरं आग्रहं कुर्वन् आसीत् यत् ईरानदेशः यूरेनियम-संवर्धनं पूर्णतया त्यजेत्, यत् प्रस्तावं ईरानदेशेन दीर्घकालात् अस्वीकृतम्।
अधुना अपि एतत् स्पष्टं नास्ति यत् इजराइलदेशः अमेरिका-ईरानयोः कस्यापि सम्भाव्य-सम्झौतस्य भागः भविष्यति वा न वा। अमेरिका-इजराइलयोः द्वारा २८ फरवरी-दिने ईरानदेशे आक्रमणानि आरब्धानि आसन्।
अस्मिन् समये अमेरिकी-अधिकारीणां कथनानुसारं गुप्तचर-मूल्याङ्कनेन ज्ञातम् यत् होर्मुज-संकटे न्यूनातिन्यूनं द्वादश ईरानी-बारूदी-सुरङ्गाः विद्यमानाः सन्ति। अमेरिकी-केन्द्रीय-आदेशालयेन सोमवासरे उक्तम् यत् युद्धारम्भात् आरभ्य तेन ९,००० अधिकानि ईरानी-स्थानानि आक्रान्तानि, यत्र १४० अधिकानि ईरानी-नौसैनिक-यानानि अपि सन्ति।
---------------
हिन्दुस्थान समाचार