Enter your Email Address to subscribe to our newsletters

जौनपुरम् , 24 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदे सेवा भारती मछलीशहरएककस्य जिलाकार्यसमितिः घोषिताऽभवत्। पूर्वीउत्तरप्रदेशस्य क्षेत्रसेवाप्रमुखस्य युद्धवीरस्य संस्तुत्या अनन्तरं काशीप्रान्तस्य प्रान्तसहसेवाप्रमुखः पवनः मंगलवासरे सभायां नूतनकार्यसमितेः घोषणा कृतवान्।
डॉ विनयकुमारत्रिपाठी विभागोपाध्यक्षेन जौनपुरात् निर्गतायां पञ्चविंशतिपदाधिकाऱिणां सूच्यां ब्रह्मदेवउपाध्यायः संरक्षकः, डॉ आरबीचौहानः जिलाध्यक्षः नियुक्तः। उपाध्यक्षपदे ओमप्रकाशतिवारी, डॉ एकेतिवारी तथा संतोषबिन्दः नियुक्ताः। महामन्त्रिपदे विभवसिन्हा सौरभदुबे च, मन्त्रिपदे संगम परमानन्द नितेशसेठ च नियुक्ताः। कोषाध्यक्षः रणजीतयादवः, सम्पर्कप्रमुखः मोलूजायसवालः, किशोरीविकासप्रमुखा बीनासिंहः तथा प्रचारप्रमुखः जयप्रकाशतिवारी इति दायित्वानि समर्पितानि।
अतिरिक्तरूपेण संजयसिंहः स्वावलम्बनप्रमुखः, डॉ कोविदेन्द्रः स्वास्थ्यायामप्रमुखः, सुशीलमिश्रः अध्ययनप्रमुखः, अशोकसरोजः सामाजिकायामप्रमुखः च नियुक्ताः। सभायाः अध्यक्षता डॉ तेजसिंहेन कृता, यत्र डॉ वेदप्रकाशसिंहः अपि उपस्थितः आसीत्। अस्मिन् अवसरॆ संस्थायाः बहवः कार्यकर्तारः अपि उपस्थिताः आसन्। कार्यक्रमस्य संचालनम् अरविन्देन कृतम्। अन्ते नवनियुक्तः जिलाध्यक्षः डॉ आरबीचौहानः आभारं व्यक्तवान्।---------
हिन्दुस्थान समाचार