ओमाने अमेरिकी दूतावासस्य परामर्शः — “गृहे सुरक्षिताः वर्तन्तां ”, वर्धमाने प्रातिकूल्ये चेतितम्
मस्कटम्, 23 मार्चमासः (हि.स.)। पश्चिम एशिया क्षेत्रे वर्तमानतनावस्य मध्ये अमेरिकी-दूतावासेन ओमानदेशे “शेल्टर इन प्लेस” इति, अर्थात् यत्र स्थिताः सन्ति तत्रैव सुरक्षिताः भवितुम्, इति परामर्शः निर्गतीकृतः। एषा चेतावनी सम्पूर्णदेशाय प्रदत्ता अस्ति,
ओमाने अमेरिकी दूतावासस्य परामर्शः — “गृहे सुरक्षिताः वर्तन्तां ”, वर्धमाने प्रातिकूल्ये चेतितम्


मस्कटम्, 23 मार्चमासः (हि.स.)।

पश्चिम एशिया क्षेत्रे वर्तमानतनावस्य मध्ये अमेरिकी-दूतावासेन ओमानदेशे “शेल्टर इन प्लेस” इति, अर्थात् यत्र स्थिताः सन्ति तत्रैव सुरक्षिताः भवितुम्, इति परामर्शः निर्गतीकृतः। एषा चेतावनी सम्पूर्णदेशाय प्रदत्ता अस्ति, यद्यपि “प्रवर्तमानक्रियाकलापानाम्” विषये विस्तृतसूचना न दत्ता।

दूतावासेन स्वस्य सुरक्षा-अलर्टे नागरिकान् उक्तम् यत् ते स्वगृहे अथवा कस्यचित् सुरक्षितभवने तिष्ठेयुः, अनावश्यकतया बहिर्गमनं न कुर्वन्तु। सहैव, भोजनम्, जलम्, औषधानि तथा अन्यावश्यकवस्तूनां पर्याप्तसंग्रहं कर्तुं परामर्शः दत्तः।

एडवाइजरीमध्ये एतदपि उक्तम् यत् यदि कश्चित् आक्रमणः भवति तर्हि जनाः भग्नावशेषेभ्यः अथवा क्षतिग्रस्तस्थानाभ्यः दूरं तिष्ठेयुः, तथा च आधिकारिकसूचनानां कृते विश्वसनीयवार्तामाध्यमेषु दृष्टिं स्थापयन्तु।

अस्मात् पूर्वं अमेरिकी-विदेशविभागेन ओमानदेशात् अनावश्यक-सर्वकारी-कर्मचारिणः तेषां परिवाराश्च देशत्यागाय निर्देशिताः आसन्। एषः निर्णयः ईरानदेशेन सह अमेरिका-इजराइल-संघर्षस्य आरम्भात् कतिपयदिनानन्तरं कृतः।

एषा चेतता क्षेत्रे वर्धमान-अस्थिरतां संभावित-खतरांश्च दृष्ट्वा निर्गता अस्ति। अस्मात् स्पष्टं भवति यत् वर्तमानपरिस्थितिषु सुरक्षा-एजेंसयः कस्यापि अप्रत्याशित-परिस्थितेः कृते सज्जाः सन्ति।

-------------------

हिन्दुस्थान समाचार