उज्जयिन्याम् आकाशीय-अवलोकन-शिविरे आकाशे ग्रहाणां संचरणं द्रष्टुं शक्यते
उज्जयिनीनगरम्, २४ मार्चमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्याः आकाशे एतेषु दिनेषु ग्रहाणां संचरणं दृश्यते। एतानि दूरदर्शिन्याः साहाय्येन जीवाजी-वेधशालायां सम्यक् द्रष्टुं शक्यन्ते। वस्तुतः उज्जयिन्यां सोमवासरात् आकाशीय-अवलोकन-शिविरम् प्रारब्धम्, यत
Venus looks as bright as a top in the sky of Ujjain


उज्जयिनीनगरम्, २४ मार्चमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्याः आकाशे एतेषु दिनेषु ग्रहाणां संचरणं दृश्यते। एतानि दूरदर्शिन्याः साहाय्येन जीवाजी-वेधशालायां सम्यक् द्रष्टुं शक्यन्ते। वस्तुतः उज्जयिन्यां सोमवासरात् आकाशीय-अवलोकन-शिविरम् प्रारब्धम्, यत् २९ मार्चमासपर्यन्तं प्रतिदिनं सायं ७ वादनात् रात्रौ ९ वादनपर्यन्तं भविष्यति।

जीवाजी-वेधशालायाः अधीक्षकः डॉ.राजेन्द्रप्रकाशगुप्तः अवदत् यत् वर्तमानकाले आकाशे सायंकाले सूर्यास्तानन्तरं पश्चिमदिशि शुक्रग्रहः लट्टुवत् अतीव दीप्तिमान् दृश्यते। शीर्षोपरि मध्ये दीप्तिमानः बृहस्पतिग्रहः अपि दृश्यते। सहैव शुक्लपक्षस्य प्रतिदिनं वर्धमानः चन्द्रमा अपि आकाशे दृश्यते।

डॉ.गुप्तेन उक्तं यत् एतेषां त्रयाणां खगोलीय-पिण्डानाम् अवलोकनार्थं एतत् शिविरम् आयोज्यते। शिविरस्य अन्तर्गतं प्रतिभागिभ्यः आकाशीय-ज्ञानं प्रदास्यते। अपि च अष्ट-अङ्गुल-व्यासनयुक्तेन दूरदर्शिना चन्द्रमसः पृष्ठभागस्य गर्ताः, पर्वताः, सौरमण्डलस्य महत्तमः ग्रहः बृहस्पतेः पृष्ठभागस्य पट्टिकाः, तस्य उपग्रहाश्च, पृथिव्याः समीपस्थः शुक्रग्रहः चन्द्रमसः इव कलाभिः सह दर्क्ष्यते व्याख्यास्यते च।

शुक्रग्रहस्य अधोनिम्नस्थितत्वात् सायं ७.३० वादनानन्तरं सः दूरदर्शिन्याः परिधेः बहिः भविष्यति, अतः सः केवलं सायं ७.३० वादनपर्यन्तमेव द्रष्टुं शक्यते। आकाशीय-अवलोकनं केवलं स्वच्छे वातावरणे एव सम्भविष्यति। शिविरे सहभागं कर्तुं २० रुप्यकाणां शुल्कं देयम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता