Enter your Email Address to subscribe to our newsletters

रायपुरम्, 24 मार्चमासः (हि.स.)।
छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेव साय-सर्वकारः ‘दीनदयाल उपाध्याय भूमिहीन कृषि-मजदूर कल्याण-योजना’ अन्तर्गतं अस्मिन् वर्षे प्रायः पञ्चसहस्रं भूमिहीनहितग्राहिभ्यः धनराशिं प्रदास्यति। एषा वार्षिकी सहायता-राशिः दशसहस्ररूप्यकाणि अद्य बुधवासरे तेषां खातेषु प्रत्यक्षं प्रेषिता भविष्यति।
राज्यसरकारस्य पक्षतः एतेषां हितग्राहिणां कृते चतुःशतानि पञ्चनवतिः कोटयः षट्नवतिलक्षाणि पञ्चाशत्सहस्राणि रूप्यकाणि (४९५ कोटि ९६ लक्ष ५० सहस्र) इति धनराशेः प्रावधानं कृतम्। मुख्यमंत्री विष्णुदेव साय अद्य बलौदाबाजार-स्थानात् एतां धनराशिं हितग्राहिणां खातेषु अन्तरयिष्यति।
अस्याः योजनायाः उद्देश्यं ग्रामीणक्षेत्रेषु भूमिहीनकृषिश्रमिकानां सशक्तीकरणम् अस्ति। अस्याः योजनायाः अन्तर्गतं सर्वाधिकाः लाभार्थिनः रायपुर-जिलात् ५३,३३८ भूमिहीनकृषिश्रमिकाः सन्ति, न्यूनतमाः तु बीजापुर-जिलात् १,५४२ भूमिहीनकृषिश्रमिकाः सन्ति।
सरकारेण एते मुख्यधारायां संयोज्य एषः सन्देशः दत्तः यत् ‘अन्त्योदय’-पङ्क्तौ स्थितः अन्तिमव्यक्तिरपि शासनस्य प्राथमिकतासु सर्वोपरि अस्ति।
हिन्दुस्थान समाचार