चीनः ईरानं शीघ्रं शांतिवार्तां शुभारब्धुम् आहूतवान्
बीजिंगम्/तेहरानम्, 25 मार्चमासः (हि.स.)।पश्चिमएशियाक्षेत्रे प्रवर्तमानतनावस्य मध्ये वाङ्ग यी इत्यनेन अब्बास अराघची इत्यनेन सह दूरभाषसंवादः कृतः, तथा च शीघ्रमेव शान्तिवार्तायाः आरम्भाय अपीलः कृतः। चीनदेशस्य विदेशमन्त्री उक्तवान् यत् वर्तमानपरिस्थित
चीनः ईरानं शीघ्रं शांतिवार्तां शुभारब्धुम् आहूतवान्


बीजिंगम्/तेहरानम्, 25 मार्चमासः (हि.स.)।पश्चिमएशियाक्षेत्रे प्रवर्तमानतनावस्य मध्ये वाङ्ग यी इत्यनेन अब्बास अराघची इत्यनेन सह दूरभाषसंवादः कृतः, तथा च शीघ्रमेव शान्तिवार्तायाः आरम्भाय अपीलः कृतः।

चीनदेशस्य विदेशमन्त्री उक्तवान् यत् वर्तमानपरिस्थितौ सर्वैः पक्षैः सर्वान् अवसरान् उपयुज्य संवाददिशि अग्रे गन्तव्यम्। सः पुनः बलपूर्वकं उक्तवान् यत् संघर्षस्य समाधानं युद्धेन न, अपितु संवादेन कूटनीत्या च एव सम्भवम्।

अस्मिन् प्रसङ्गे ईरानदेशस्य विदेशमन्त्री अपि स्पष्टतया उक्तवान् यत् तस्य देशः केवलं अस्थायीयुद्धविरामं न, किन्तु स्थायिसमाधानमेव इच्छति। तेन चीनदेशेन प्रदीयमानायाः मानवीयसहायतायाः कृते कृतज्ञता अपि व्यक्ता।

अयं संवादः ईरानदेशस्य अनुरोधेन अभवत्, यः क्षेत्रे वर्धमानसंघर्षस्य मध्ये कूटनीतिकप्रयत्नानां तीव्रतां सूचयति इति मन्यते।

चीनदेशः ईरानदेशस्य एकः प्रमुखः रणनीतिकसहयोगी अस्ति, तथा च पूर्वम् अपि शान्तेःआह्वानं कृतवान्। तथापि चीनदेशेन खाडीक्षेत्रे अमेरिकीस्थानकेषु कृतानां आक्रमणानां स्पष्टसमर्थनं न कृतम्, येन तस्य संतुलितकूटनीतिकनीतिः अपि प्रकाशते।

--------------------

हिन्दुस्थान समाचार