Enter your Email Address to subscribe to our newsletters

२६ मार्चमासे १९०७ तमे वर्षे जाता महादेवी-वर्मा हिन्दी-साहित्यस्य महती कवयित्री छायावाद-युगस्य प्रमुख-स्तम्भेषु एका आसीत्। सूर्यकान्त-त्रिपाठी-निराला, जयशङ्कर-प्रसादः, सुमित्रानन्दन-पन्तः इत्येतैः च सह तस्याः नाम छायावाद-युगं समृद्धं कृतवतां साहित्यकारेषु गण्यते।
महादेवी-वर्मा केवलं काव्य-रचनायामेव न, अपितु गद्य-साहित्येऽपि महत्त्वपूर्णं योगदानं कृतवती। तस्याः रचनासु संवेदनशीलता, करुणा, गभीर-भावानां च अभिव्यक्तिः दृश्यते। विशेषतः तस्याः कवितासु विषादः आध्यात्मिक-भावाश्च प्रमुखतया प्रकाशन्ते, येन सा “आधुनिकी-मीरा” इति नाम्ना अपि प्रसिद्धा अभवत्।साहित्य-क्षेत्रे तस्याः अतुलनीय-योगदानाय सा ज्ञानपीठ-पुरस्कारः, पद्म-विभूषण-पुरस्कारः, साहित्य-अकादेमी-फेलोशिप् इत्यादिभिः प्रतिष्ठित-सम्मानैः सम्मानिता। महादेवी-वर्मा-इत्यास्याः जीवनं साहित्यं च हिन्दी-जगतः कृते अमूल्य-धरोहर-रूपेण वर्तते, यत् अग्रिम-वंशान् गभीरतया प्रभावितवती।
महत्त्वपूर्ण-घटनाचक्रम्
१९५३ – जोनास-साल्केन पोलियो-रोग-निवारणार्थं नूतन-टीकायाः आविष्कार-घोषणा कृता।१९७१ – शेख-मुजीबुर्रहमानः बाङ्ग्लादेशं स्वतन्त्र-देशरूपेण घोषितवान्।१९७२ – तत्कालीन-राष्ट्रपतिः वी.वी.-गिरिः प्रथम-अन्ताराष्ट्रिय-संस्कृत-सम्मेलनस्य उद्घाटनं कृतवान्।१९७३ – लण्डन्-स्टॉक-एक्सचेञ्ज-मध्ये महिलानां नियुक्ति-प्रक्रिया आरब्धा।१९७४ – गढवाल-हिमालयस्य लाता-ग्रामे गौरा-देव्याः नेतृत्वे महिलाभिः वृक्ष-रक्षणार्थं चिपको-आन्दोलनस्य आरम्भः कृतः।१९७५ – जैविक-आयुध-सन्धिः प्रभावे आगता।१९७९ – अमेरिकादेशे मिस्र-इजराइल-सन्धौ हस्ताक्षरितम्।१९९५ – पञ्चदश-सदस्यीय-यूरोपीय-संघस्य सप्त-देशेषु आन्तरिक-सीमा-नियन्त्रणं समाप्तम्।१९९८ – चीन-देशेन अमेरिकी-इरीडियम-नेटवर्क-इत्यस्य द्वौ उपग्रहौ सफलतया कक्षायां स्थापितौ।१९९९ – दक्षिण-अफ्रीका-देशस्य राष्ट्रपतिः नेल्सन-मण्डेला प्रथम-प्रजातान्त्रिक-संसदः विघटनं घोषितवान्।२००१ – केन्या-देशे छात्रावासे अग्निदुर्घटनायां ५८ छात्राः मृताः।२००३ – पाकिस्तान-देशेन २०० कि.मी. दूरी-पर्यन्तं मारक-क्षमतायुक्तस्य ‘अब्दाली’ नामक-प्रक्षेपास्त्रस्य परीक्षणं कृतम्।२००६ – मेलबर्न-नगरे अष्टादश-राष्ट्रमण्डल-क्रीडानां समापनम्।२००८ – भारतीय-क्रिकेट-नियन्त्रण-मण्डलस्य निधौ अनियमितता-प्रकरणे पूर्व-अध्यक्षः जगमोहन-डालमिया गृहीतः।२००८ – टाटा-मोटर्स-इत्यनेन अमेरिकी-‘जगुआर’ तथा ‘लैण्ड-रोवर’ इत्यनयोः अधिग्रहणं कृतम्।२००८ – यूसुफ-रजा-गिलानी पाकिस्तान-देशस्य पञ्चविंशतितमः प्रधानमन्त्रीरूपेण शपथं गृहीतवान्। भारत-पाकिस्तान-देशयोः युद्ध-गृहीतानां विमोचनार्थं वार्ता आरब्धा।२०२० – कोरोना-विषाणोः कारणेन विश्वे मृतानां संख्या २१ सहस्राधिकाः अभवन्, यूरोपे रोगिणां संख्या २,५०,००० अतिक्रान्ता।
जन्म
१८९३ – धीरेन्द्रनाथ-गाङ्गुली – बंगाली-चलच्चित्र-जगतः प्रसिद्धः अभिनेता-निर्देशकश्च।१९०७ – महादेवी-वर्मा – हिन्दी-कवयित्री, छायावाद-युगस्य प्रमुख-स्तम्भेषु एका।१९३३ – कुबेरनाथ-रायः – ललित-निबन्ध-लेखनस्य विशिष्ट-विद्वान्।१९७३ – लैरी-पेजः – गूगल-संस्थायाः सह-संस्थापकः, संगणक-विज्ञानी च।
निधनम्
१९२२ – ईरानी-सूफी-सन्तः कविश्च मंसूर-अल-हल्लाजः।१८१३ – महाराजा-साहिब-सिंहः – पटियाला-रियासतस्य महाराजा।१९९६ – के.के.-हेब्बारः – प्रसिद्धः भारतीय-चित्रकारः।१९९९ – राजकुमार-रणबीर-सिंहः – मणिपुर-प्रदेशस्य अष्टमः मुख्यमन्त्री।१९९९ – आनन्द-शङ्करः – भारतीय-गीतकारः संगीतकारश्च।२००६ – अनिल-बिस्वासः – भारतीय-राजनीतिज्ञः।
हिन्दुस्थान समाचार / अंशु गुप्ता