Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 25 मार्चमासः (हि.स.)।
राज्यसभायां बुधवासरे पूर्वसदस्यस्य दत्ता मेघे निधनस्य विषये गाढं शोकं व्यक्तीकृतम्। सभापतिना सीपी राधाकृष्णन सदसि शोकप्रस्तावं स्थापयित्वा दिवंगतनेतुः प्रति श्रद्धाञ्जलिः अर्पिता।
सभापतिना उक्तं यत् दत्ता मेघे इत्यस्य २२ मार्चदिने ८९ वर्षस्य आयुषि निधनम् अभवत्। सः अप्रैलमासात् २००२ वर्षात् आरभ्य अप्रैलमासपर्यन्तं २००८ वर्षपर्यन्तं राज्यसभासदस्यः आसीत्।
तस्य जन्म ११ नवम्बर १९३६ दिनाङ्के वर्धा जिला अन्तर्गत पौनार ग्रामे अभवत्। सः स्वस्य राजनैतिकजीवनस्य आरम्भं महाराष्ट्र विधानसभा सदस्यत्वेन कृतवान्, तथा त्रयः कार्यकालाः यावत् विधायकः आसीत्।
तदनन्तरं सः महाराष्ट्र सर्वकारे मन्त्री अपि अभवत्, चतुर्वारं लोकसभा सदस्यत्वेन अपि सेवां दत्तवान्।
सभापतिना उक्तं यत् दत्ता मेघे शिक्षाक्षेत्रे स्वास्थ्यसेवाक्षेत्रे च उल्लेखनीयम् योगदानं कृतवान्। तेन अनेकानि शैक्षणिकानि चिकित्सालयानि संस्थानानि च स्थापितानि, विशेषतः वञ्चितवर्गाणां कृते उच्चशिक्षायाः स्वास्थ्यसेवायाः च उपलब्धता वर्धिता।
तस्य निधनं राष्ट्रस्य कृते अपूरणीयहानिः इति उक्त्वा सभापतिना उक्तं यत् राष्ट्रेण एकः सक्षमः सांसदः, अनुभवी विधायकः, समर्पितः समाजसेवी च नष्टः।
अनन्तरं सदनस्य सदस्याः दिवंगतात्मनः शान्त्यर्थं मौनं धारयित्वा श्रद्धाञ्जलिं समर्पितवन्तः।
-------------
हिन्दुस्थान समाचार