मन्त्री-अशोकसिंघलस्य नामांकनपत्रस्य परीक्षणे अन्तिमनिर्णयः अद्य प्रातः एकादशवादनपर्यन्तं स्थगितः
गुवाहाटीनगरम्, २५ मार्चमासः (हि.स.)। असम-राज्यस्य ढेकियाजुली-विधानसभा-क्षेत्रात् भाजपा-अभ्यर्थी स्वास्थ्य-मन्त्रिणः अशोकसिंघलस्य नामांकनपत्रस्य परीक्षणे अन्तिमनिर्णयः बुधवासरे प्रातः ११ वादनपर्यन्तं स्थगितः कृतः। निर्वाचन-अधिकारिणां अनुसारं, सिंघल
Decision on Minister Ashok Singhal मंत्री अशोक सिंघल


गुवाहाटीनगरम्, २५ मार्चमासः (हि.स.)। असम-राज्यस्य ढेकियाजुली-विधानसभा-क्षेत्रात् भाजपा-अभ्यर्थी स्वास्थ्य-मन्त्रिणः अशोकसिंघलस्य नामांकनपत्रस्य परीक्षणे अन्तिमनिर्णयः बुधवासरे प्रातः ११ वादनपर्यन्तं स्थगितः कृतः।

निर्वाचन-अधिकारिणां अनुसारं, सिंघलस्य नामांकनस्य विस्तृत-परीक्षणं प्रचलति, अग्रिम-समीक्षायाः अनन्तरमेव अन्तिम-निर्णयः स्वीकृतः भविष्यति।

तथैव बरपेटा-विधानसभा-क्षेत्रस्य नामांकनपत्राणां परीक्षणमपि ११ वादनपर्यन्तं स्थगितं कृतम्। मङ्गलवासरे राज्यस्य आहत्य १२६ विधानसभा-आसनानां मध्ये १२४ आसनेषु नामांकनपत्राणां परीक्षणं सम्पन्नं कृतम्, यदा बरपेटा-ढेकियाजुली-क्षेत्रयोः प्रक्रिया अग्रिम-समीक्षार्थं स्थगिता आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता