Enter your Email Address to subscribe to our newsletters

शिमला, 25 मार्चमासः (हि.स.)।
हिमाचलप्रदेशविधानसभायाः प्रश्नकाले मुख्यमंत्री सुखविंदर सिंह सक्खुः उक्तवान् यत् राज्यसरकारेण अटल-आदर्शविद्यालयाः न निरुद्धाः। तेन उक्तं यत् एतेषां विद्यालयानां निर्माणकार्यं पूर्वसरकारस्य काले आरब्धम् आसीत्, यत् च अवशिष्टं कार्यं आसीत् तत् वर्तमानसरकारेण सम्पूर्यते। एषा सूचना तेन विधायिकायाःअनुराधाराणायाः प्रश्नस्य तथा विपक्षनेतुः जयरामठाकुरस्य अनुपूरकप्रश्नस्य उत्तररूपेण प्रदत्ता।
मुख्यमन्त्री उक्तवान् यत् राज्यसरकारः प्रधानमन्त्रिणं पूर्वप्रधानमन्त्रिणां च सम्यक् सम्मानं करोति। तेन सूचितं यत् सरकारेण प्रदेशे राजीवगान्धी-डे-बोर्डिंग-विद्यालयानां स्थापना कर्तुं निर्णयः कृतः। तेन स्पष्टं कृतं यत् अटल-आदर्शविद्यालयाः आवासीयविद्यालयाः सन्ति, किन्तु राजीवगान्धी-नाम्ना निर्मीयमाणेषु विद्यालयेषु डे-बोर्डिंग-सुविधा उपलब्धा भविष्यति, येन छात्राः दिवाकाले अध्ययनं तथा अन्यसुविधाः प्राप्नुयुः।
अस्मात् पूर्वं मूलप्रश्नस्य लिखितोत्तरे शिक्षामन्त्री रोहितठाकुरोऽवदत् यत् लाहौल-स्पीति-जिलायां त्रयाणां राजीवगान्धी-डे-बोर्डिंग-विद्यालयानां स्थापनार्थं प्रशासनिक-अनुमतिः प्रदत्ता अस्ति। तेन उक्तं यत् सरकारः चरणबद्धरूपेण एतेषां विद्यालयानां स्थापनां कृत्वा शिक्षाव्यवस्थां सुदृढीकर्तुं प्रयत्नशीलाऽस्ति।
---------------
हिन्दुस्थान समाचार