नानकमत्ता-नगरे कूर्माचल-नगर-सहकारी-धनागारस्य ५१तम-शाखायाः शुभारम्भः
नैनीतालनगरम्, २५ मार्चमासः (हि.स.) - उत्तराखण्डस्य ऊधमसिंहनगर-जनपदस्य नानकमत्ता-नगरे दि-कूर्माचल-नगर-सहकारी-बैंक-लिमिटेड-नैनीताल-संस्थायाः ५१तम-शाखायाः शुभारम्भः अद्य बुधवासरे अभवत्। शाखायाः उद्घाटनं धनागाराध्यक्षः विनयसाहः, उपाध्यक्षः सुरेशकुमारज
नानकमत्ता शाखा का शुभारंभ करते कूर्मांचल बैंक के प्रबंधक विनय साह एवं अन्य।


नैनीतालनगरम्, २५ मार्चमासः (हि.स.) - उत्तराखण्डस्य ऊधमसिंहनगर-जनपदस्य नानकमत्ता-नगरे दि-कूर्माचल-नगर-सहकारी-बैंक-लिमिटेड-नैनीताल-संस्थायाः ५१तम-शाखायाः शुभारम्भः अद्य बुधवासरे अभवत्।

शाखायाः उद्घाटनं धनागाराध्यक्षः विनयसाहः, उपाध्यक्षः सुरेशकुमारजैनः, गुरुद्वारा-प्रबंधक-समितेः अध्यक्षः जोगिंदरसिंहः, महासचिवः अमरजीतसिंहः बोपारा, पूर्व-विधायकः डॉ.प्रेमसिंहः राणा तथा बलदेवसिंहः हरियाना इत्येतैः संयुक्तरूपेण कृतम्। अत्र डॉ.राणा दीपप्रज्वलनं कृत्वा शाखायाः व्यावसायिककार्यस्य शुभारम्भं कृतवान्।

अस्मिन् अवसरे धनागाराध्यक्षः विनयसाहः स्थानीयनागरिकाणां कार्यक्रमे सहभागितायाः कृते आभारं व्यक्तवान्। सचिवः संजयसाहः उक्तवान् - धनागारः ग्राहकेभ्यः नवीनतम-प्रौद्योगिकीय-सेवाः उपलब्धं कर्तुं प्रतिबद्धः अस्ति, तथा यूपीआई-आधारित-बैंकिंग-सेवानां विस्तारः क्रियते। सः विश्वासं व्यक्तवान् यत् चलित-वित्तीयवर्षस्य अन्ते धनागारः ४५०० कोटि-रूप्यकादधिकं व्यवसायं करिष्यति।

कार्यक्रमे धनागार-संचालक-मण्डलस्य सदस्यः गिरीशपाठकः, क्षेत्रीय-व्यवसाय-विकासप्रमुखः हरीशसाहः, प्रबंधकाः धीरजजोशी, दिनेशजोशी, राजेन्द्रः मेहरा, हरीशचन्दः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता