Enter your Email Address to subscribe to our newsletters

इन्दौरनगरम्, २५ मार्चमासः (हि.स.)। मध्यप्रदेशे सञ्चाल्यमानस्य “संकल्प-से-समाधान”-अभियानस्य अन्तर्गतं इन्दौर-जनपदे अद्य बुधवासरे पञ्च प्रमुख-चिकित्सालयेषु विशेष-स्वास्थ्य-शिविराणाम् आयोजनं क्रियते। एतेषु शिविरेषु चिह्नित-रोगिणां विशेषज्ञ-चिकित्सकैः निःशुल्क-स्वास्थ्य-परीक्षणं उपचारं च सुनिश्चितं करिष्यते।
मुख्य-चिकित्सा-स्वास्थ्य-अधिकारी डॉ.माधव-प्रसाद-हासानी अवदत् यत् एतानि विशेष-स्वास्थ्य-शिविराणि प्रातः दशवादनात् श्री-अरविन्दो-चिकित्सालयः, सुपर-स्पेशलिटी- चिकित्सालयः (एमजीएम), बॉम्बे- चिकित्सालयः, चोइथराम- चिकित्सालयः तथा इंडेक्स-मेडिकल-महाविद्यालयः इत्येतेषु स्थलेषु आयोज्यन्ते। एतेषु चिह्नित-रोगिणां—विशेषतः हृदयरोग-कर्कट-रोग-उच्च-रक्तचाप-तथा अन्यैः गम्भीर-असंक्रामक-रोगैः पीडितानां कृते परीक्षण-उपचारयोः व्यवस्था कृता अस्ति। शिविरेषु सम्बन्धित-संस्थानानां विशेषज्ञ-चिकित्सकाः उपस्थिताः सन्तः रोगिणां परीक्षणं कृत्वा आवश्यकम् उपचारं प्रदास्यन्ति।
जनपदप्रशासनेन चिह्नित-रोगिणः शिविर-स्थलं प्रति आनयितुं पुनः प्रत्यागमनाय च समुचित-व्यवस्था क्रियते। अपि च रोगिणां परिचयः कृत्वा तान् शिविरं प्रति एकत्रीकरणस्य दायित्वं मुख्य-चिकित्सा-स्वास्थ्य-अधिकारी तथा एमवाय-चिकित्सालयस्य अधीक्षकाय समर्पितम् अस्ति। अस्य अभियानस्य माध्यमेन जनपदे गम्भीर-रोगैः ग्रसित-रोगिणां कृते समये विशेषज्ञ-उपचारः उपलब्धः भवेत् इति प्रयत्नः क्रियते, येन तेषां स्वास्थ्ये सुधारः सुनिश्चितः भवेत्।
उल्लेखनीयम् यत् “संकल्प-से-समाधान”-अभियानस्य अन्तर्गतं ग्रामे ग्रामे विकासखण्ड-स्तरे च पूर्वं शिविराणि आयोजितानि आसन्। एतेषु स्वास्थ्य-विभागस्य कर्मिभिः रोगिणां चिह्नांकनं कृतम्। एते चिह्नित-रोगिणः इन्दौरं आनयित्वा तेषां उपचारः सुनिश्चितः करिष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता