उपराष्ट्रपतिः सी.पी. राधाकृष्णन् 28 मार्च दिनांके झारखंडभ्रमणे, उलिहातौ बिरसा मुंडा दास्यति श्रद्धांजलिम्
रांची, 25 मार्चमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन २८ मार्च दिने झारखण्डराज्यस्य भ्रमणाय आगमिष्यति। सः विशेषविमानेन प्रातः प्रायः ११ वादने रांची विमानस्थानके अवतरिष्यति। रांची आगत्य उपराष्ट्रपतिः सीधे खूंटीजनपदस्य उलिहातू ग्रामं गमिष्यत
उपराष्ट्रपति की फाइल फोटो


रांची, 25 मार्चमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन २८ मार्च दिने झारखण्डराज्यस्य भ्रमणाय आगमिष्यति। सः विशेषविमानेन प्रातः प्रायः ११ वादने रांची विमानस्थानके अवतरिष्यति।

रांची आगत्य उपराष्ट्रपतिः सीधे खूंटीजनपदस्य उलिहातू ग्रामं गमिष्यति, यत्र सः महान् स्वातन्त्र्यसंग्रामसेनानी भगवान् बिरसा मुंडा इत्यस्य प्रतिमायां माल्यार्पणं करिष्यति। अस्मिन् अवसरि सः तस्य वंशजान् अपि मिलिष्यति।

खूंटीभ्रमणात् प्रत्यागत्य उपराष्ट्रपतिः रांचीस्थितं राजभवनं गमिष्यति, यत्र सः मध्यान्हभोजनं करिष्यति तथा किञ्चित्कालं विश्रामं करिष्यति। ततः अनन्तरं सः आईआईएम रांची इत्यस्य पुंदाग परिसरस्य दीक्षान्तसमारोहे मुख्यातिथिरूपेण सहभागी भविष्यति।

कार्यक्रमस्य समाप्तेः अनन्तरं उपराष्ट्रपतिः सायंकाले देहलीनगरं प्रति प्रस्थितो भविष्यति। अस्य भ्रमणस्य निमित्तं राज्यसरकारेण रांची तथा खूंटी जनपदप्रशासनयोः आवश्यकतया सर्वाः व्यवस्थाः सुनिश्चिताः कर्तुं निर्देशाः दत्ताः।---------------

हिन्दुस्थान समाचार