कुशल दुवरिणो नामांकनं वैधं घोषितम्
गुवाहाटी, 25 मार्चमासः (हि.स.)। शिवसागरक्षेत्रस्य भाजपा-पक्षस्य अभ्यर्थिनः कुशल दुवरी इत्यस्य नामांकनपत्रम् अन्ततः वैधं घोषितम्, येन तस्य अभ्यर्थितायाः विषये प्रवृत्ता अनिश्चितता समाप्ता जाता। राइजर-दलस्य अध्यक्षः अखिल गोगोई दुवरीस्य नामांकनं प्
Assam Assembly Election 2026. असम विधानसभा चुनाव 2026


गुवाहाटी, 25 मार्चमासः (हि.स.)।

शिवसागरक्षेत्रस्य भाजपा-पक्षस्य अभ्यर्थिनः कुशल दुवरी इत्यस्य नामांकनपत्रम् अन्ततः वैधं घोषितम्, येन तस्य अभ्यर्थितायाः विषये प्रवृत्ता अनिश्चितता समाप्ता जाता।

राइजर-दलस्य अध्यक्षः अखिल गोगोई दुवरीस्य नामांकनं प्रति आव्हानं कृत्वा निर्वाचन-आयोगे शिकायतं निबद्धवान्। अस्याः शिकायतायाः अनन्तरं तस्य नामांकनं स्वीकृतं भविष्यति वा न वा इति विषये अटकलाः तीव्राः अभवन्।

दीर्घकालपर्यन्तं निर्वाचन-आयोगस्य जालपुटे केवलं आवेदनस्य स्थितिः एव दृश्यते स्म, येन भ्रमस्य स्थिति उत्पन्ना आसीत्। किन्तु गतायां रात्रौ विलम्बेन आयोगस्य जालपुटे सूचना अद्यतनं कृत्वा दुवरिणो नामांकनं वैधं स्वीकृतं च इति उक्तम्।

तथैव ढेकियाजुली-आसनात् भाजपा-कांग्रेस-पक्षयोः अभ्यर्थिनोः नामांकनयोः विषये अद्यापि किमपि अन्तिमनिर्णयः न कृतः, येन तस्मिन् क्षेत्रे स्थिति अद्यापि अस्पष्टा वर्तते।

हिन्दुस्थान समाचार