Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 25 मार्चमासः (हि.स)। गृहपाकाय प्रयुज्यमानस्य एलपीजी अनिलकोषस्य आरक्षणसमयसीमायाः परिवर्तनविषये सामाजिकमाध्यमेषु प्रसृताः वार्ताः केन्द्रसरकारेण पूर्णतया निरस्ताः। पेट्रोलियममन्त्रालयेन स्पष्टतया उक्तं यत् एलपीजी आरक्षणनियमेषु कश्चन परिवर्तनः न कृतः।
नगरेषु २५ दिवसानन्तरं तथा ग्रामप्रदेशेषु ४५ दिवसानन्तरं एव एलपीजीअनिलकोषः प्राप्यते।
पेट्रोलियम तथा प्राकृतिकवायुमन्त्रालयेन बुधवासरे प्रकाशितेन वक्तव्येन उक्तं यत् सरकारस्य ध्यानं प्रति एतादृशाः केचन समाचाराः तथा सामाजिकमाध्यमेषु प्रकाशिताः संदेशाः आगताः, येषु एलपीजी पुनर्भरणस्य आरक्षणसमयसीमायाः परिवर्तनस्य दावा क्रियते। तेषु प्रधानमंत्री उज्ज्वला योजनायाः अन्तर्गतसंबद्धानां कृते ४५ दिवसाः, अन्येषां एकसिलिण्डरयुक्तानां कृते २५ दिवसाः, द्विसिलिण्डरयुक्तानां कृते ३५ दिवसाः इति निर्दिष्टम्।
मन्त्रालयेन उक्तं यत् एलपीजी पुनर्भरणस्य आरक्षणसमयसीमा पूर्ववत् एव प्रवर्तते। एतस्मिन् विषये कश्चन परिवर्तनः न कृतः इति स्पष्टतया निरूपितम्।
सरकारेण नागरिकान् प्रति आह्वानं कृतं यत् ते एतादृशेषु भ्रामकसूचनासु अफवाहेषु च न विश्वासं कुर्वन्तु, न च ताः अन्यत्र प्रसारयन्तु। अनावश्यकतया वा भयवशात् एलपीजी आरक्षणं न कुर्वन्तु इति अपि उपदिष्टम्।
मन्त्रालयेन आश्वासनं दत्तं यत् देशे एलपीजी पर्याप्तपरिमाणे उपलब्धः अस्ति, तस्य कस्यापि अभावस्य सम्भावना नास्ति। अतः उपभोक्तारः चिन्तां न कुर्वन्तु।
---------------
हिन्दुस्थान समाचार