Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २५ मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अद्य (२५ मार्चमासे) स्व-जन्मदिने वीराङ्गना-दुर्गावती-टाइगर-रिजर्व-इत्यत्र बामनेर-नद्यां द्वादश कच्छपान् विमोक्षयिष्यति। मुख्यमन्त्री डॉ.यादवः टाइगर-रिजर्व-इत्यत्र चित्रकाणां पुनर्वासार्थं सॉफ्ट-रिलीज-बोमा इत्यस्य भूमिपूजनमपि करिष्यति।
जनसम्पर्क-अधिकारी के.के.जोशी उक्तवान् यत् वीराङ्गना-दुर्गावती-टाइगर-रिजर्व मध्यप्रदेशस्य महान्तः टाइगर-रिजर्व अस्ति, यः प्रदेशस्य सागर-दमोह-नरसिंहपुर-जनपदानां ७२ ग्रामान् संयोजयन् आहत्य २३३९ वर्ग-किलोमीटर-परिमाणं धारयति। अयं मध्यप्रदेशस्य सप्तमः तथा भारतस्य चतुर्पञ्चाशत्तमः टाइगर-रिजर्व अस्ति। वर्षे २०२३ तमे अस्य टाइगर-रिजर्व-रूपेण घोषणा कृता आसीत्। टाइगर-रिजर्व- इत्यत्र अधुना ३२ व्याघ्राः विद्यमानाः सन्ति। एषः अभयारण्यः मुख्यतया वृक-भूमिरिति मन्यते, अत्र बहवः वृकाः दृश्यन्ते।
जनसम्पर्क-अधिकारी उक्तवान् यत् टाइगर-रिजर्व-इत्यत्र चित्रकाणामनुकूल-भूमिः उपलब्धा अस्ति। एषा भूमिः दक्षिण-अफ्रीका-देशे अपि दृश्यते। शीघ्रमेव कूनो-अभयारण्यात् चित्रकाः अत्र आनयित्वा स्थापयिष्यन्ते। अभयारण्ये पक्षिणां २४० जातयः सन्ति, याः आकर्षण-केंद्रं भवन्ति। टाइगर-रिजर्व-इत्यत्र व्याघ्रः, पैंथरः, वृकः, भल्लूकः, शृगालः, लकडबग्घा, लोमशः, वराहः, नीलगौः, चतुष्शृङ्गः, कृष्णमृगः, चिंकारा, कच्छपः, मकरः इत्यादयः विविधाः पशु-पक्षिणः अपि विद्यन्ते। वीराङ्गना-दुर्गावती-टाइगर-रिजर्व-इत्यत्र पर्यटनेन सह रोजगारस्य अपि विपुलाः सम्भावनाः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता