मुख्यमन्त्रीनिवासे भगिन्याः पञ्चायतः भविष्यति – मुख्यमंत्री डॉ.यादवः
भोपालनगरम्, २५ मार्चमासः (हि.स.) – मध्यप्रदेशस्य मुख्यमंत्री डॉ.मोहनयादवः स्वजन्मदिनस्य अवसरे “बहनों की पाती भैया के नाम” सह आगतानां भगिनीनां स्वागतं कृतवान्। मुख्यमंत्री उक्तवान् – एषा अभिव्यक्तिः आत्मीय-प्रयत्नः अस्ति, यया भगिन्याः आशीर्वादः निरन
मुख्यमंत्री डॉ. मोहन यादव के जन्म दिवस पर पाती लेकर बहनें पहुंची मुख्यमंत्री निवास


भोपालनगरम्, २५ मार्चमासः (हि.स.) – मध्यप्रदेशस्य मुख्यमंत्री डॉ.मोहनयादवः स्वजन्मदिनस्य अवसरे “बहनों की पाती भैया के नाम” सह आगतानां भगिनीनां स्वागतं कृतवान्। मुख्यमंत्री उक्तवान् – एषा अभिव्यक्तिः आत्मीय-प्रयत्नः अस्ति, यया भगिन्याः आशीर्वादः निरन्तरं प्राप्यते।सः अवदत् – प्रदेशस्य भगिन्यः स्वभावभावनाः, अनुभवः, विचाराः च पातीमार्गेण व्यक्तवत्यः। भगिन्यः स्वभ्रातरं प्रति विश्वासं, स्नेहं, सम्मानं च शब्देषु अभिव्यक्तवत्यः। शीघ्रमेव मुख्यमंत्रीनिवासे भगिनीनां विशेष-पञ्चायतः आयोजयिष्यते, यस्मात् संवादः सम्पन्नः भविष्यति।

मुख्यमंत्रिणा आव्हानं कृतम् यत् – महिलासशक्तिकरणाय सञ्चाल्यमानाः योजनाः अधिकाधिकं प्रसारयितुं भगिन्यः सहयोगं दातुं यत्नं कुर्वन्तु।

हिन्दुस्थान समाचार / अंशु गुप्ता