Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २५ मार्चमासः (हि.स.)। मध्यप्रदेशे राज्य-शिक्षा-केन्द्रेण, विद्यालय-शिक्षा-विभागेन च अद्य बुधवासरे कक्षा-पञ्चमी तथा अष्टमी-परिषद्-परीक्षयोः परिणामः घोषितः भविष्यति। विद्यार्थी प्रातः ११:३० वादनात् स्वपरीक्षा-परिणामं वेब-पटले द्रष्टुं शक्नुवन्ति।
राज्य-शिक्षा-केन्द्रेण प्रदत्त-सूचनानुसारं अद्य प्रातः ११ वादनात् परीक्षा-परिणाम-घोषणायाः प्रक्रिया राज्य-शिक्षा-केन्द्र-कार्यालयस्य सभाकक्षे सञ्चालिता भविष्यति। तदनन्तरं प्रातः ११:३० वादने परीक्षा-परिणामः पटले प्रकाशितः भविष्यति। विद्यार्थिनः, अभिभावकाः, शिक्षकाः च वेब-पटले स्वस्य अनुक्रमाङ्क-संख्या/समग्र-आईडी इत्यादि निवेश्य परिणामं द्रष्टुं शक्नुवन्ति। तथैव शिक्षकाः संस्था-प्रमुखाश्च स्व-विद्यालयस्य विद्यार्थ्यनुगुणं परिणाममपि द्रष्टुं शक्नुवन्ति। राज्य-शिक्षा-केन्द्रेण वेब-पटलस्य लिङ्क क्यूआर-कोड-माध्यमेन अपि उपलब्धः कृतः।
प्रदेशे कक्षा-पञ्चमी तथा अष्टमी-परीक्षाः परिषद्-रूपेण आयोजिताः आसन्। एताः परीक्षाः गत-फरवरी-मासस्य २० तः २८ दिनाङ्कपर्यन्तं सम्पन्नाः। तासु प्रदेशस्य शासकीय-अशासकीय-विद्यालयानां तथा पंजीकृत-मदरसा-विद्यालयानां कक्षा-पञ्चम्याः १२ लक्षं ७६ सहस्राधिकाः तथा कक्षा-अष्टम्याः १० लक्षं ९२ सहस्राधिकाः विद्यार्थिनः सहभागिनः अभवन्। प्रदेशे प्रायः २३ लक्षं ६८ सहस्राधिक-विद्यार्थिनां उत्तर-पुस्तिकानां मूल्यांकनार्थं ३२२ केन्द्राणि निर्मितानि। एतेषु केन्द्रेषु १ लक्षं १० सहस्राधिकैः मूल्यांकनकर्तृभिः अङ्कानां अन्तर्जाल-प्रविष्टिः पटले अभिलेखिता।
हिन्दुस्थान समाचार / अंशु गुप्ता