Enter your Email Address to subscribe to our newsletters

कोलकाता, 25 मार्चमासः (हि.स.)।
पश्चिमबङ्गालस्य मुख्यमन्त्री ममता बनर्जी बुधवासरे बसन्तीपूजायाः पावनावसरे राज्यवासिभ्यः शुभाशंसाः अर्पितवती।
मुख्यमन्त्री सामाजिकमाध्यमे ‘एक्स’ इति मंचे स्वसन्देशे उक्तवती यत् “सर्वेभ्यः बसन्तीपूजायाः हार्दिकाः श्रद्धाभावाः प्रेम च शुभाशंसाः।”
सा प्रार्थितवती यत् एषः पावनः अवसरः सर्वेषां जीवनं सुखशान्तिसमृद्धिभिः पूरयतु।
---------------
हिन्दुस्थान समाचार