यमुनानगरम् : पश्चिम एशिया संकटतः जगाधरी बर्तन उद्योगे गहनतया प्रभावः
यमुनानगरम्, 25 मार्चमासः (हि.स.)। पश्चिम-एशियायां प्रवर्तमाने संघर्षस्य प्रभावः अधुना जगाधरी-नगरस्य प्रसिद्ध-बर्तन-औद्योगिक-एककेषु अपि स्पष्टतया दृश्यते। निर्यातस्य बाधा तथा कच्चसामग्री-आपूर्तेः अवरोधेन उद्योगः संकटावस्थां गच्छति। जगाधरी-नगरे प्र
जगाधरी बर्तन फैक्ट्री का दृश्य


यमुनानगरम्, 25 मार्चमासः (हि.स.)।

पश्चिम-एशियायां प्रवर्तमाने संघर्षस्य प्रभावः अधुना जगाधरी-नगरस्य प्रसिद्ध-बर्तन-औद्योगिक-एककेषु अपि स्पष्टतया दृश्यते। निर्यातस्य बाधा तथा कच्चसामग्री-आपूर्तेः अवरोधेन उद्योगः संकटावस्थां गच्छति। जगाधरी-नगरे प्रायः अष्टशत (८००) लघु-महत्यः औद्योगिक-एककाः संचालिताः सन्ति, येषु अनेके उद्योगाः संततिपरम्परया प्रवर्तन्ते। उद्योगिनः वदन्ति यत् मध्य-पूर्वदेशेषु वर्तमानस्थितेः कारणेन तत्र व्यापारः प्रायः स्थगितः जातः, येन अत्रस्थ-उद्योगाः महत् हानिम् अनुभवन्ति।

उद्योगसम्बद्धजनानां अनुसारं अरब-देशेषु निर्यातस्य अवरोधेन सिद्धवस्तूनि गोदामेषु संचीयन्ते, अपि च तत्र स्थितं भुगतानम् अपि चिन्तायाः कारणं जातम्।

अनेन सह कच्चसामग्री-आपूर्तेः अवरोधेन मूल्येषु विंशतितः पञ्चविंशतिपर्यन्तं प्रतिशतवृद्धिः अभवत्, येन उत्पादनव्ययः अपि वर्धितः। स्थानीयजनाः वदन्ति यत् अस्मात् क्षेत्रात् एल्युमिनियम-इस्पात-निर्मितानि बर्तनानि बहुलतया विदेशेषु प्रेष्यन्ते, किन्तु गत-मासात् आरभ्य निर्यातः पूर्णतया प्रभावितः अस्ति। ते अपि वदन्ति यत् कच्चसामग्री-अभावेन आदेशानां न्यूनतया च उत्पादनक्षमता प्रायः पञ्चपञ्चाशत् (५५) तः षष्टि (६०) प्रतिशतपर्यन्तं अवनता अभवत्।

अस्य अतिरिक्ते देशीय-बाजारे अपि प्रभावः दृश्यते। वर्धमान-व्ययस्य कारणेन देशव्यापिनः थोक-व्यापारिणः आदेशान् न्यूनीकृतवन्तः, येन व्यापारः प्रायः चत्वारिंशत् (४०) प्रतिशतपर्यन्तं न्यूनः अभवत्। उद्योगक्षेत्रस्य अनुमानानुसारं वर्तमानस्थित्या प्रायः त्रिशतकोटि (३०० कोटि) रूप्यकाणां व्यापारः प्रभावितः जातः। यदि स्थितिः शीघ्रं सामान्यां न भविष्यति, तर्हि अस्य प्रभावः रोजगारे स्थानीय-अर्थव्यवस्थायां च अपि भविष्यति।

हिन्दुस्थान समाचार