मां कल्याण्याः कालरात्रि स्वरूपस्य दर्शनं प्राप्य भक्ताः अभवन् भक्त्या सिक्ताः
प्रयागराजः, २५ मार्चमासः (हि.स.)। मातुः कल्याणीदेव्याः मन्दिरधाम्नि प्रवर्तमाने नवरात्रिमहोत्सवे सप्तमे दिने प्रातःकाले महामन्त्री पण्डितः श्यामजी पाठकः विधिविधानपूर्वकं माता कल्याणीदेव्याः मङ्गलआरतीं कृत्वा माता कालरात्रेः आवाहनं कृतवान्। अपराह्ण
डॉ अनिरूद्ध महाराज


प्रयागराजः, २५ मार्चमासः (हि.स.)।

मातुः कल्याणीदेव्याः मन्दिरधाम्नि प्रवर्तमाने नवरात्रिमहोत्सवे सप्तमे दिने प्रातःकाले महामन्त्री पण्डितः श्यामजी पाठकः विधिविधानपूर्वकं माता कल्याणीदेव्याः मङ्गलआरतीं कृत्वा माता कालरात्रेः आवाहनं कृतवान्। अपराह्णे द्विवादनपर्यन्तं मातुः दर्शनपूजनार्थं मन्दिरे भक्तानां महान् समागमः आसीत्। दर्शनपूजनानन्तरं भक्तैः बालकानां कर्णच्छेदनं मुण्डनं च कारितम्।

मन्दिरप्राङ्गणे प्रवर्तमाने दुर्गासप्तशतीपाठे शतचण्डीमहायज्ञे च भक्ताः सहभागी अभवन् तथा नैवेद्यम् अर्पितवन्तः। सायंकाले माता कल्याणीदेव्याः श्रृङ्गारदर्शनस्य पटः भक्तानां कृते उद्घाटितः। तदा माता कल्याणी कालरात्रिस्वरूपेण खड्गधारिणी, मुण्डमालालङ्कृता, भगवान् शिवस्य उपरि आरूढा दिव्यरूपेण भक्तान् दर्शनं दत्तवती। तस्याः अलौकिकरूपस्य दर्शनं कृत्वा भक्ताः भक्तिरसे निमग्नाः सन्तः कालानां काल महारानी काली इति घोषं कृत्वा सम्पूर्णं कल्याणीदेवीधाम घोषेण निनादितवन्तः।

आरती-अध्यक्षः पण्डितः सुशीलकुमार पाठकः उक्तवान् यत् गुरुवासरे नवरात्रेः महाअष्टमी तिथौ माता कल्याणीदेव्याः श्रृङ्गारः माता महागौरीस्वरूपेण भविष्यति। तदा मातुः सम्पूर्णः श्रृङ्गारः स्वर्णाभरणैः पुष्पफलमेवैः च विधास्यते। मेले प्रबन्धने अध्यक्षः सुशीलकुमार पाठकः, महामन्त्री श्यामजी पाठकः, संयोजकः अनिल पाठकः, यज्ञाचार्यः सन्तोषानन्द महाराजः, दिलीप पाठकः च सहिताः शतशः स्वयंसेवकाः तथा पुलिसकर्मिणः नियुक्ताः आसन्।

माध्यमप्रभारी राजेश केसरवानी उक्तवान् यत् अस्मिन् अवसरे माता कल्याणीदेवीमन्दिरधामस्य अन्तर्गतया श्रीनवसंवत्सरमानससमित्या आयोजितायां श्रीरामकथायां सप्तमे दिने कथा व्यासः डॉ. अनिरुद्ध महाराजः भक्तान् लंकाकाण्डस्य प्रसङ्गं श्रावयन् श्रीराम-विभीषणयोः संवादं वर्णयन् उक्तवान् यत् जीवः यदा जीवनस्य धर्मरथे आरूढः भवति तदा एव विजयम् अधिगच्छति। तस्मिन् रथे शौर्यं धैर्यं च द्वौ चक्रौ भवेताम्, बलं विवेकः संयमः परोपकारः चत्वारः अश्वाः भवन्तु। दया, क्षमा, सत्यशीलता च तस्य रथस्य रज्जु ध्वजा च भवेताम्। तस्य रथस्य सारथिः ज्ञानी भवेत् यः जीवम् जीवनस्य कुचक्रं भित्त्वा परमसत्ताया लक्ष्यपर्यन्तं सफलतया नयेत्।

कथायाः सञ्चालनं प्रवक्ता ओंकारनाथ त्रिपाठी कृतवान् तथा उक्तवान् यत् रामनवमीपर्वणि २७ मार्च तिथौ मध्याह्ने द्वादशवादने समित्या धूमधामेन श्रीरामजन्मोत्सवः प्रसादवितरणं च आयोज्यते। अस्मिन् अवसरे पण्डितः कृष्णकुमार पाठकः, महामन्त्री सुबोध खन्ना, शिवबाबू त्रिपाठी, राजेश केसरवानी, मनोज टंडन, कुंवरजी टंडन, राजू यादवः च सहिताः शतशः भक्ताः आरतीम् अकरोत्।

हिन्दुस्थान समाचार