एलपीजी-सङ्कटस्य कारणेन संसद-परिसरे विपक्षेण विरोध-प्रदर्शनम् कृतम्
नवदिल्ली, २५ मार्चमासः (हि.स.)। कांग्रेसपक्षेण सह विपक्षीय-सांसदाः संसद-भवन-परिसरे पाक-वाति(एलपीजी)सङ्कटं दृष्ट्वा विरोध-प्रदर्शनं कृतवन्तः। सांसदाः मकर-द्वारे रिक्त-अनिलकोष-चित्राणि धृत्वा शासनस्य विरुद्धं उद्घोषं कृतवन्तः। विरोधे सम्मिलिते नेतृण
संसद भवन परिसर में एलपीजी गैस की किल्लत को लेकर विरोध प्रदर्शन करते विपक्षी सांसद।


नवदिल्ली, २५ मार्चमासः (हि.स.)। कांग्रेसपक्षेण सह विपक्षीय-सांसदाः संसद-भवन-परिसरे पाक-वाति(एलपीजी)सङ्कटं दृष्ट्वा विरोध-प्रदर्शनं कृतवन्तः। सांसदाः मकर-द्वारे रिक्त-अनिलकोष-चित्राणि धृत्वा शासनस्य विरुद्धं उद्घोषं कृतवन्तः।

विरोधे सम्मिलिते नेतृणां मध्ये कांग्रेस-अध्यक्षः मल्लिकार्जुन-खरगे, सांसदः मनीषतिवारी, मणिकमटैगोरः, राजद-सांसदः मीसा भारती तथा सपा-सांसदः धर्मेन्द्रयादवः इत्यादयः विपक्षीय-सांसदाः उपस्थिताः। सांसदाः हस्तयोः एकं महद्विज्ञापनं धृताः आसन्, यस्मिन् लिखितम् आसीत् - “खाली-सिलिण्डर, खाली-वादे।” विपक्षीय-सांसदाः आग्रहं कृतवन्तः यत् देशे सर्वत्र एलपीजी-सङ्कटस्य मध्ये शासनं शीघ्रं पदक्षेपं उत्थाप्य वाति-आपूर्तिं सामान्यीकुर्यात्।

हिन्दुस्थान समाचार / अंशु गुप्ता