एलपीजी-पुनःपूरण-आरक्षणस्य समयसीमायाम् किमपि परिवर्तनम् नास्ति, जनाः दुष्प्रचारेभ्यः अवशिष्येयुः - केन्द्रम्
नवदिल्ली, २५ मार्चमासः (हि.स.)। देशे एलपीजी- पुनःपूरण-आरक्षणस्य समयसीमायाः विषये चलन्त्यः सञ्चार-वार्ताः तथा सामाजिक-माध्यमेषु लेखाः केन्द्र-सर्वकारेण खण्डिताः, मिथ्या इति निर्दिष्टा। केन्द्र-सर्वकारेण स्पष्टं कृतम् यत् अस्यां व्यवस्थायां किमपि परि
गैस सिलेंडर


नवदिल्ली, २५ मार्चमासः (हि.स.)। देशे एलपीजी- पुनःपूरण-आरक्षणस्य समयसीमायाः विषये चलन्त्यः सञ्चार-वार्ताः तथा सामाजिक-माध्यमेषु लेखाः केन्द्र-सर्वकारेण खण्डिताः, मिथ्या इति निर्दिष्टा। केन्द्र-सर्वकारेण स्पष्टं कृतम् यत् अस्यां व्यवस्थायां किमपि परिवर्तनम् न कृतम्। जनान् अपि दुष्प्रचारेभ्यः अवशिष्टुं आव्हानं कृतम्।

केंद्रीय-पेट्रोलियम-एवं-प्राकृतिक-गैस-मन्त्रालयेन बुधवासरे उक्तम् यत् कतिपय-वार्तासु दावा कृतः यत् प्रधानमन्त्री उज्ज्वला-योजना (PMUY) नियोजनाय ४५ दिनानि, नॉन-PMUY एक-अनिलकोष-नियोजनाय २५ दिनानि, तथा नॉन-PMUY द्वि-अनिलकोष-नियोजनाय ३५ दिनानि इति नव-समयसीमा निश्चितास्ति। मंत्रालयेन उक्तं यत् एषा सूचना मिथ्या अस्ति तथा वर्तमान-व्यवस्था एव प्रवर्तते।

वर्तमान-नियमानुसारं एलपीजी-पुनःपूरण-आरक्षणस्य समयसीमा नगरीय-क्षेत्रेषु २५ दिनानि तथा ग्रामिण-क्षेत्रेषु ४५ दिनानि अस्ति। एषा नियमावली सर्वेषु प्रकारेषु नियोजनेषु समानरूपेण मान्या अस्ति।

मन्त्रालयेन नागरिकेभ्यः आव्हानं कृतम् यत् ते एतान् दुष्प्रचारान् न विश्वसन्तु, अनावश्यकं चिन्ताजनकं वा भयेन पुनःपूरण-आरक्षणं न कुर्वन्तु। सहैव उक्तम् यत् देशे पर्याप्तः एलपीजी-भाण्डारः उपलब्धः अस्ति, अतः चिन्तायाः किमपि कारणम् नास्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता