प्रधानमन्त्री मोदी मातरं कालरात्रिं प्रति देशस्य सुख-समृद्ध्यर्थं प्रार्थनां कृतवान्
नवदिल्ली, २५ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी चैत्र-नवरात्रि-अवसरे मातुः कालरात्र्याः पूजार्चनां कृत्वा देशवासिनां सुख-समृद्धेः कामनां कृतवान्। प्रधानमन्त्री ‘एक्स’-माध्यमे संस्कृत-श्लोकं विलिख्य मातुः कालरात्र्याः महिमानं वर्णितवान्।
पंतप्रधान नरेंद्र मोदी


नवदिल्ली, २५ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी चैत्र-नवरात्रि-अवसरे मातुः कालरात्र्याः पूजार्चनां कृत्वा देशवासिनां सुख-समृद्धेः कामनां कृतवान्। प्रधानमन्त्री ‘एक्स’-माध्यमे संस्कृत-श्लोकं विलिख्य मातुः कालरात्र्याः महिमानं वर्णितवान्। तेन लिखितं यत् मातुः कालरात्र्याः स्वरूपं भय-नाशकं अस्ति तथा सा स्वभक्तानां रक्षां करोति।

प्रधानमन्त्रिणा अयं श्लोकः लिखितः -“वामपादोल्लसल्लोहलताकण्टकभूषणा।वर्धन्मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी॥”

अस्यार्थः अस्ति यत् - मातुः कालरात्र्याः स्वरूपम् अत्यन्तं भयंकरं प्रभावशाली च अस्ति। तस्याः वाम-पादे दीप्यमानाः लोह-शृङ्खलाः कण्टक-सदृशानि आभूषणानि च शोभन्ते। तस्याः शिरसि उन्नतः ध्वजः विराजते तथा तस्याः वर्णः कृष्णः (अत्यन्त-श्यामः) अस्ति। सा भयङ्करी इव दृश्यते, किन्तु स्वभक्तानां सर्वाणि भयानि संकटानि च नाशयित्री अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता