Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 25 मार्चमासः (हि.स)।
केन्द्रीयवित्तमन्त्री निर्मलासीताारमण बुधवासरे लोकसभायां वित्तविधेयक २०२६ विषयक चर्चायाः उत्तरं दत्त्वा उक्तवती यत् सर्वकारः एमएसएमई कृषकान् सहकारीसमितीः च सशक्तीकरोति। सा सदनं अवगतवती यत् रोजगारः विकासश्च नीतिनिर्माणस्य केन्द्रे स्तः। भारतं विकसितराष्ट्रं कर्तुं डिजिटल इलेक्ट्रॉनिक्स रक्षा इत्यादिषु प्रमुखक्षेत्रेषु समर्थनं दातुं प्रतिबद्धता अपि व्यक्तवती।
सा उक्तवती यत् भारते सुधाराः कस्यचित् दबावेन न, अपितु दृढविश्वासेन क्रियन्ते तथा देशः “रिफॉर्म एक्सप्रेस” इति मार्गेण अग्रे गच्छति। सरकारः विश्वासेन सह सुधारान् करोति तथा करप्रणाली सरलिकीक्रियते। ईमानदारकरदातृभ्यः राहत् प्रदत्ता अस्ति, सप्तदश जीवनरक्षकऔषधेषु कस्टमशुल्कं निरस्तम्, लघुकरदातृणां कृते च ऑनलाइनप्रक्रिया प्रवर्तिता अस्ति। सरकारस्य मुख्यलक्ष्यं विश्वासाधारितकरप्रणालीनिर्माणम् अस्ति, यस्य अन्तर्गतं ईमानदारकरदातृणां क्लेशाः न्यूनाः क्रियन्ते। करप्रशासनं अधिकपारदर्शि सरलम् च कर्तुं बहवः उपायाः स्वीकृताः।
केन्द्रीयवित्तमन्त्री उक्तवती यत् करदाता पुनर्मूल्यांकनप्रक्रियायाः आरम्भेऽपि स्वस्य रिटर्नं अद्यतनं कर्तुं शक्नोति। सामान्यतया एषा प्रक्रिया आरब्धा चेत् रिटर्ने परिवर्तनं कर्तुं न शक्यते इति सा अवदत्। जनसामान्याय राहत् दातुं सप्तदश आवश्यकजीवनरक्षकऔषधानां मूलकस्टमशुल्कात् मुक्तिः अपि घोषिताऽस्ति। अनेन औषधानां मूल्यं न्यूनं भविष्यति तथा रोगिणः प्रत्यक्षलाभं प्राप्स्यन्ति।
लघुकरदातृणां कृते प्रक्रिया अपि सरलिकीकृता अस्ति। अधुना न्यून अथवा शून्य टीडीएस प्रमाणपत्रं प्राप्तुं नियमाधारितस्वयंचालितऑनलाइनप्रणाली प्रवर्तिता अस्ति, येन समयस्य जटिलतायाः च ह्रासः भविष्यति।
अतिरिक्ततया सीतारमण उक्तवती यत् केन्द्रसरकारेण संगृहीताः सेस तथा सरचार्ज अधिकराशिः विभिन्नयोजनाभिः राज्येषु व्ययिता भवति, येन राज्येभ्यः वित्तीयसहाय्यं लभ्यते। सा अवदत् यत् कृषि मत्स्यपालन सहकारिता च सुदृढीकरणाय अस्मिन् वित्तविधेयके बहवः उपायाः निर्दिष्टाः। प्राथमिकसहकारीसमितयः स्वसंघीयसहकारीसमितीभ्यः दुग्धफलशाकादीनि आपूर्तिं कुर्वन्त्यः अद्यापि करछूटं प्राप्नुवन्ति।
---------------
हिन्दुस्थान समाचार