Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 25 मार्चमासः (हि.स.)।
असमराज्यस्य मुख्यमंत्री डॉ. हिमन्त बिस्व सरमा उक्तवान् यत् अस्मिन् वारे जनाः कांग्रेसं प्रति मतं दातुं न इच्छन्ति, राज्ये च जनमतस्य स्पष्टः परिवर्तनः दृश्यते।
कृष्णगुरु आश्रमे उपस्थिते सति गतायां रात्रौ माध्यमैः सह संवादं कुर्वन् मुख्यमंत्री उक्तवान् यत् सः जनैः सह प्रत्यक्षं संवादं कृतवान् तथा तेषां मतं ज्ञातवान्।
तस्य मतानुसारं जनाः अधुना राजनैतिकवाक्यबाहुल्यस्य अपेक्षया रोजगारविकासादिषु विषयेषु अधिकं ध्यानं ददति।
सः उक्तवान् यत् जनाः ज्ञातुम् इच्छन्ति यत् कियत् कार्यावसराः प्रदास्यन्ते तथा कियत् विकासः भविष्यति।
मुख्यमन्त्री एतदपि अभ्यधात् यत् अधुना जनाः कांग्रेसस्य वक्तव्येषु श्रवणे रुचिं न वहन्ति।
राज्ये आगामिनि निर्वाचनसमये राजनैतिकक्रियाः तीव्राः जाताः सन्ति, विविधदलानां नेतारः जनसंपर्काभियाने संलग्नाः सन्ति।
हिन्दुस्थान समाचार