जनसहयोगेन शांतिपूर्वकं रामनवमी-उत्सवः सम्पत्स्यते - अमित-अनुरागः
नवादाजनपदः, २५ मार्चमासः (हि.स.)। नवादा-जनपदस्य कौआकोल-थानापरिसरे बुधवासरे सदर-सडीओ अमित-अनुरागस्य अध्यक्षतायां शान्तिसमितेः सभा आयोजिता। सभायां मुख्यतः रामनवमीपूजा-शोभायात्रायाः सम्बन्धिनः सदस्याः भागं गृहीतवन्तः। सभायां शोभायात्रां शान्तिपूर्णवात
एसडीओ व अन्य


नवादाजनपदः, २५ मार्चमासः (हि.स.)। नवादा-जनपदस्य कौआकोल-थानापरिसरे बुधवासरे सदर-सडीओ अमित-अनुरागस्य अध्यक्षतायां शान्तिसमितेः सभा आयोजिता। सभायां मुख्यतः रामनवमीपूजा-शोभायात्रायाः सम्बन्धिनः सदस्याः भागं गृहीतवन्तः। सभायां शोभायात्रां शान्तिपूर्णवातावरणे सम्पन्नां कर्तुं विचार-विमर्शः अभवत्।

अनुमण्डलपदाधिकारी सभायां उक्तवान् - रामनवमीपूजा-समितेः सर्वे पदाधिकारेणः सदस्यैः सहकारेण शोभायात्रा शान्तिपूर्णेन सम्पन्ना भविष्यति। प्रशासनम् अस्य साहाय्यं कर्तुं सम्पूर्णतः सज्जम् अस्ति।

तेन उक्तं - शोभायात्रायाः पूर्वं सम्पूर्णां व्यवस्थां कृत्वा सुरक्षा-प्रबन्धाः मार्गानुसारं कर्तव्याः। अनुमण्डलपदाधिकारिणः शोभायात्रासमितेः सूचितवन्तः यत् स्व-कार्यकर्तारः पर्याप्तसंख्यया नियुक्ताः स्युः तथा आरक्षकाः प्रशासनं च सहयोगं कुर्वन्तः शोभायात्रां सम्पन्नां करिष्यन्ति।सभायां सदस्यैः अनुमण्डल-आरक्षक-पदाधिकरिणे सूचितम् - ०१ अप्रैलमासे, प्रातः १० वादने शोभायात्रा गायत्री प्रोजेक्ट-स्कूल-जोरावरडीहात् आरभ्य जोगाचक-कौआकोल-विपण-दुर्गामण्डप-थानामार्ग-रानीबाजार-सूर्यमन्दिरपर्यन्तं प्रचलिष्यति। पुनः बिझोमार्गेण जेपीचतुष्पथं पारं कृत्वा गायत्रीमन्दिरे समापनं भविष्यति।

सभायां बीडीओ डॉ॰अखिलेश कुमारः, थानाध्यक्षेण सह इंस्पेक्टर अनिलकुमारसिंहः डॉ॰चन्द्रिकाप्रसादः मुकुलसिंहः गोपालरजकः राहुलशुक्लः देवराजः सूरजसावः राजीवकुमारः सुभाषलालः युगलकिशोरलालः अभिमन्युकुमारः बालमुकुन्दसिंहः इत्यादयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता