Enter your Email Address to subscribe to our newsletters

काठमांडूः, 25 मार्चमासः (हि.स.)।
नेपालस्य प्रतिनिधि-सभानिर्वाचने निर्वाचितेषु सदस्येषु ज्येष्ठतमः सदस्यः अर्जुन-नरसिंह-केसी बुधवासरे प्रोटेम्-स्पीकर-रूपेण पदस्य गोपनीयतायाः च शपथं गृहीतवान्।
राष्ट्रपतिः रामचन्द्र-पौडेलस्य समक्षे शीतल-निवासे तेन शपथग्रहणं कृतम्। ततः अनन्तरं सः संसद्-सचिवालयं गतः औपचारिकरूपेण पदभारं स्वीकृतवान्। अस्मिन् समारोहे उपराष्ट्रपतिः राम-सहाय-यादवः, प्रधानन्यायाधीशः प्रकाश-मानसिंह-राउतः, राष्ट्रिय-सभायाः अध्यक्षः नारायण-प्रसाद-दहालः च सहिताः विभिन्न-संवैधानिक-निकायानां प्रमुखाः, कूटनीतिक-मिशनानां प्रमुखाः, वरिष्ठ-सरकारी-अधिकारीणः च उपस्थिताः आसन्।
प्रतिनिधि-सभानिर्वाचने एकषष्ट्यधिक-शत (१६५) सदस्याः प्रत्यक्ष-प्रणाल्या, शताधिक-दश (११०) सदस्याः समानुपातिक-प्रतिनिधित्व-प्रणाल्या च निर्वाचिताः। अर्जुन-नरसिंह-केसी नेपाली-काङ्ग्रेस-पक्षस्य वरिष्ठ-नेता अस्ति।
---------------
हिन्दुस्थान समाचार