Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 25 मार्चमासः (हि.स.)।विभिन्नेषु दैनिक-हिन्दी-समाचारपत्रेषु भागलपुर-संस्करणे २५ मार्च २०२६ दिने तिलकामांझी-भागलपुर-विश्वविद्यालयस्य शिक्षकाणां पदोन्नतिसम्बद्धा या वार्ता प्रकाशिताऽभवत्, तस्याः टीएमबीयू-प्रशासनेन खण्डनं कृतम्। कुलसचिवः प्रो. रामाशीष-पूर्वे बुधवासरे उक्तवान् यत् पूर्व-कुलपतिना पदोन्नतिसम्बद्ध-रेफरी-प्रेषणार्थं शिक्षकाणां दस्तावेज-सम्बद्ध-फाइल् उपरि हस्ताक्षरकृतिः इति वार्ता सर्वथा भ्रामिका, निराधारा, असत्या च अस्ति। विश्वविद्यालय-प्रशासनं एतस्याः वार्तायाः दृढतया खण्डनं करोति।
तेन उक्तं यत् एषा वार्ता पूर्णतया आधारहीना अस्ति। विश्वविद्यालय-प्रशासनेन अस्मिन् विषये कापि आधिकारिक-सूचना न प्रकाशिताऽस्ति न च प्रसारिताऽस्ति, तथापि विविधेषु दैनिक-हिन्दी-समाचारपत्रेषु एषा वार्ता प्रकाशिताऽभवत्, यत् अत्यन्तं दुःखदं विषयः अस्ति।
उल्लेखनीयं यत् विश्वविद्यालयसम्बद्धायाः कस्यापि वार्तायाः प्रकाशनात् प्रसारणात् पूर्वं मीडिया-संस्थाभिः टीएमबीयू-प्रशासनात् आधिकारिक-पुष्टिः करणीयैव।
---------------
हिन्दुस्थान समाचार