Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 25 मार्चमासः (हि.स.)।
राज्यसभायां बुधवासरे शून्यकाले शिक्षाव्यवस्था मानसिकस्वास्थ्यं पोषणसम्बद्धसूचना च डिजिटलस्वायत्तता इत्यादिषु महत्वपूर्णेषु विषयेषु चर्चा अभवत्। सदस्याः एतेषु विषयेषु दृढनीतिगतपदानि स्वीकर्तुं सर्वकारम् आग्रहं कृतवन्तः।
भारतीयजनतापक्षस्य सदस्यः डॉ राधामोहनदासअग्रवालः उक्तवान् यत् अद्यतनस्पर्धात्मकशिक्षाव्यवस्थायां अङ्कानां स्पर्धया अध्ययनस्य गुणवत्तायाः हानिः भवति। परिवारविद्यालयसमाजानां दबावेन बालकाः अत्यधिकतनावं अनुभवन्ति तथा च कोचिङ्ग् इत्यस्य उपरि निर्भराः भवन्ति। सः एकस्य अध्ययनस्य उल्लेखं कृत्वा उक्तवान् यत् देशे बहवः बालकाः व्यग्रताचिन्ताभावनात्मकअसन्तुलनम् अवसादं च अनुभवन्ति।
सः विद्यालयेषु मानसिकस्वास्थ्यसुविधानाम् अभावं प्रति चिन्तां व्यक्तवान् तथा प्रत्येकशतविद्यार्थिनां कृते एकः मनोवैज्ञानिकचिकित्सकः नियुक्तव्यः इति अभ्यर्थितवान्। सहैव शिक्षकाणां कृते बालमनोविज्ञानस्य प्रशिक्षणम् आवश्यकम् इति अपि अवदत्।
काङ्ग्रेसपक्षस्य सदस्या रञ्जीतारञ्जनः देशे वर्धमानस्य स्वास्थ्यसंकटस्य विषयम् उत्थापितवती। सा उक्तवती यत् भारतदेशे मधुमेहः स्थूलता च शीघ्रं वर्धेते। पैकेज्ड खाद्यपदार्थेषु स्पष्टसरलपोषणसूचनायाः अभावः गम्भीरसमस्या अस्ति इति उक्त्वा सा पैकेटस्य अग्रभागे वर्णाधारितचेतावनीप्रणालीम् प्रवर्तयितुं आग्रहं कृतवती। अनेन खाद्यनिर्मातृकम्पन्याः उत्तरदायित्वं सुनिश्चितं भविष्यति तथा जनस्वास्थ्ये सकारात्मकप्रभावः अपि भविष्यति।
काङ्ग्रेसपक्षस्य सदस्यः नीरजडाङ्गी डिजिटलस्वायत्ततायाः विषयम् उत्थापयन् भारते स्वदेशीयसर्चइञ्जिनस्य विकासस्य आवश्यकता अस्ति इति अवदत्। सः उक्तवान् यत् चीनरूसफ्रान्सदक्षिणकोरियाचेकगणराज्यवियतनामादयः देशाः स्वस्वीयानि सर्चइञ्जिनानि धारयन्ति। एते देशाः स्वदेशीयसर्चइञ्जिनविकासेन स्वीयां डिजिटलस्वायत्ततां सुदृढीकृतवन्तः।
सः अपि उक्तवान् यत् भारते स्थिति चिन्ताजनका अस्ति यतः अस्माकं १४० कोटिजनानां अधिकांशदत्तांशः विदेशीयसर्चइञ्जिनद्वारा संग्रहितः विश्लेषितः च भवति। एतत् गोपनीयतायाः तथा साइबरसुरक्षायाः कृते संकटं जनयितुं शक्नोति।
------------
हिन्दुस्थान समाचार