सीजनस्य अंते लिवरसेतुं त्यक्ष्यति मोहम्मद सालाहम्, भावुक संदेशे अकरोद्घोपशषणाम्
नवदिल्ली, 25 मार्चमासः (हि.स.)। मोहम्मद सालाह इत्यनेन मङ्गलवासरे महत्त्वपूर्णः निर्णयः घोषितः यत् सः वर्तमानसत्रस्य अन्ते लिवरपूल फुटबॉल क्लबं त्यक्ष्यति। सालाह इत्यनेन सामाजिकमाध्यमे प्रकाशिते एकस्मिन् दृश्यपटे स्वविदायसन्देशस्य आरम्भे एतस्य निर
मोहम्मद सालाह


नवदिल्ली, 25 मार्चमासः (हि.स.)।

मोहम्मद सालाह इत्यनेन मङ्गलवासरे महत्त्वपूर्णः निर्णयः घोषितः यत् सः वर्तमानसत्रस्य अन्ते लिवरपूल फुटबॉल क्लबं त्यक्ष्यति। सालाह इत्यनेन सामाजिकमाध्यमे प्रकाशिते एकस्मिन् दृश्यपटे स्वविदायसन्देशस्य आरम्भे एतस्य निर्णयस्य पुष्टि कृता।

त्रयस्त्रिंशद्वर्षीयः सालाह उक्तवान्, “दुर्भाग्यवशात् एषः दिवसः आगतः। एतत् मम विदायायाः प्रथमः अंशः अस्ति। अहं अस्य सत्रस्य अन्ते लिवरपूलं त्यक्ष्यामि।”

सः क्लबेन, नगरेण, प्रशंसकैः सह स्वस्य गाढसम्बन्धं स्मरन् एतत् स्वजीवनस्य महत्त्वपूर्णः अंशः आसीत् इति उक्तवान्।

सालाह लिवरपूलस्य इतिहासे तृतीयः सर्वाधिकगोलकर्त्ता अस्ति। तेन ४३५ स्पर्धासु २५५ गोलाः कृताः, तथा च अस्मिन् सूच्यां केवलं इयान रश तथा रोजर हंट तस्मात् अग्रे स्तः।

२०१७ तमे वर्षे क्लबेन सह संलग्नः सन् तेन द्वौ प्रीमियर लीग शीर्षकौ, चैंपियंस लीग, एफए कप, सुपर कप, क्लब विश्व कप, लीग कप इत्यादीनि अनेकानि महत्त्वपूर्णानि उपाधयः जिताः।

स्वसन्देशे सः उक्तवान् यत् सः कदापि न चिन्तितवान् यत् अयं क्लबः अत्रस्थिताः जनाः च तस्य जीवनस्य इत्थं महत्त्वपूर्णः अंशः भविष्यन्ति। स्वसहखिलाडिभ्यः प्रशंसकेभ्यः च धन्यवादं प्रदाय सः उक्तवान् यत् स्वक्रीडाजीवनस्य उत्तमकठिनसमयेषु प्राप्तं समर्थनं सः कदापि न विस्मरिष्यति।

मोहम्मद सालाह अपि उक्तवान् यत् लिवरपूल सदैव तस्य हृदये भविष्यति, तथा च अयं क्लबः तस्मै गृहवत् एव अनुभूयते।

सः भावपूर्णैः शब्दैः उक्तवान्, “अत्रतः गमनं न सुलभम्, किन्तु अहं सदैव अस्य क्लबस्य अंशः भविष्यामि।”

उल्लेखनीयम् यत् २०१९-२० सत्रे सालाहेन लिवरपूलं त्रिंशद्वर्षपर्यन्तं प्रतीक्षितं लीग शीर्षकं प्राप्तुं महत्त्वपूर्णा भूमिका निर्वहिता। तथापि गतवर्षस्य नवम्बरमासे क्लबस्य प्रशिक्षकेन आर्ने स्लॉट इत्यनेन सह मतभेदस्य समाचाराः अपि प्रकाशिता, येन तस्य भविष्यसम्बन्धिन्यः अटकलाः अधिकाः अभवन्।

---------------

हिन्दुस्थान समाचार