Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, २५ मार्चमासः (हि.स.)। केन्द्रीय-युवा-कार्यक्रम-तथा-क्रीडामन्त्री मनसुख-माण्डविया अद्य छत्तीसगढस्य आतिथ्ये देशे प्रथमवारं आयोज्यमानानां खेलो-इण्डिया-जनजातीय-क्रीडानां शुभारम्भं करिष्यति। मुख्यमंत्री विष्णुदेव-सायः शुभारम्भ-कार्यक्रमस्य अध्यक्षतां करिष्यति। उपमुख्यमंत्री तथा क्रीडा-युवा-कल्याणमन्त्री अरुण-सावः अति-विशिष्टातिथिरूपेण समारोहे समुपस्थितः भविष्यति।
केन्द्रीय-आवास-तथा-नगरीय-कार्य-राज्यमन्त्री तोखन-साहू, छत्तीसगढ-विधानसभायाः अध्यक्षः डॉ.रमन-सिंहः तथा उपमुख्यमंत्री विजय-शर्मा इत्येते शुभारम्भ-कार्यक्रमे विशिष्टातिथिरूपेण सहभागिनः भविष्यन्ति।
माण्डवियः अद्य नवदिल्ली-नगरात् सायं पञ्चवादन-अर्धवादने रायपुरं प्राप्स्यति। सः सायं षड्वादने साइंस-कॉलेज-परिसरे खेलो-इण्डिया-जनजातीय-क्रीडानां शुभारम्भं कृत्वा रात्रौ दशवादने नवदिल्लीं प्रति पुनः प्रस्थितः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता