Enter your Email Address to subscribe to our newsletters

कोलकाता, 25 मार्चमासः (हि.स.)। पश्चिमबङ्गविधानसभानिर्वाचनसंबन्धे ऑल इण्डिया मजलिस ए इत्तेहादुल मुस्लिमीन-अध्यक्षः असदुद्दीन ओवैसी तथा आमजनता उन्नयन पार्टी संस्थापकः हुमायूं कबीर बुधवासरे कोलकातानगरे संयुक्तपत्रकारवार्तां कृत्वा स्वराजनीतिकगठबन्धनस्य रणनीतिं स्पष्टीकृतवन्तौ। अस्मिन् प्रसङ्गे विंशतिसंख्याकाः जनसभाः करणीयाः इति घोषणापि कृता।
पत्रकारवार्तायाम् असदुद्दीन ओवैसी उक्तवान् यत् सः हुमायूं कबीरस्य उपमुख्यमन्त्रिपदसम्बद्धां चर्चां प्रति सहमतः नास्ति। तेन उक्तं यत् वयं न उपमुख्यमन्त्रिपदाय अपि तु मुख्यमन्त्रिपदाय निर्वाचनं करिष्यामः। उपमुख्यमन्त्रिपदम् हस्तस्य षष्ठाङ्गुलिसदृशम् अस्ति।
ओवैसी तृणमूल कांग्रेसदलेन एआईएमआईएम दलं भारतीय जनता पार्टी इत्यस्य “बी टीम” इति यत् आरोपितं तस्य अपि प्रत्युत्तरं दत्तवान्। तेन उक्तं यत् वयं कस्यापि बी टीम न, अपि तु स्वस्यैव टीम स्मः। अस्मिन् अवसरि तेन मुख्यमन्त्री ममता बनर्जी अपि आलोचिता तथा विविधेषु राजनैतिकविषयेषु प्रश्नाः उठापिताः।
तेन उक्तं यत् जनतया ममता बनर्जी सत्तायै निर्वाचिता, अतः तया अहंकारः न कर्तव्यः। ओवैसी अपि अवदत् यत् भयप्रदर्शनद्वारा राजनीति न करणीयम्, लोकतन्त्रे सर्वेभ्यः स्वविचारप्रस्तुतये अधिकारः अस्ति।
अस्मिन् अवसरे ओवैसी उक्तवान् यत् तस्य दलं पश्चिमबङ्गनिर्वाचने एकं वा द्वे आसने निर्वाचनं करिष्यति, यदा आमजनता उन्नयन पार्टी पूर्णसमर्थनं प्राप्स्यति। तेन अपि उक्तं यत् कोलकाता सहित राज्यस्य विविधेषु भागेषु उभयदलयोः नेतारः संयुक्तयात्रां करिष्यन्ति।
प्रश्नस्य उत्तररूपेण ओवैसी धार्मिकस्थलानां महत्त्वम् अपि विवेचितवान्। तेन उक्तं यथा मन्दिराणि हिन्दूनां कृते, चर्च ईसाईनां कृते, गुरुद्वाराः सिखसमुदायस्य कृते पवित्राणि सन्ति, तथैव मस्जिदाः मुस्लिमसमुदायस्य कृते पवित्राः सन्ति। तेन उक्तं यत् धार्मिकस्थलानां सम्मानः सर्वैः करणीयः।------------------
हिन्दुस्थान समाचार