Enter your Email Address to subscribe to our newsletters

नाहननगरम्, २५ मार्चमासः (हि.स.) - सिरमौर-जनपदस्य मुख्यालये नाहननगरे सन्निहिते रामा-ग्रामे प्राचीन-श्रीराममन्दिरे नवरात्रितः आरभ्य रामकथायाः आयोजनम् क्रियते। अस्याः रामकथायाः समापनं रामनवमी-अवसरे भविष्यति।
रामकथां श्रोतुं ग्रामीणाः दूर-दूरात् आगच्छन्ति तथा श्रवणं कुर्वन्ति। अस्मिन। अवसरे भा.ज.पा.प्रदेशाध्यक्षः डॉ.राजीवबिंदलः अपि बुधवासरे रामाग्रामं प्रस्थितः। तस्य स्वागतं कृतम्। सः मन्दिरे मस्तकं नत्वा कथायां अपि भागं गृहीतवान्।
डॉ.राजीवबिंदलः उक्तवान् - मर्यादापुरुषोत्तमः भगवान् रामः सर्वेषां श्रद्धा-आस्थायाः केन्द्रत्वेन अस्ति। श्रीरामनवमी-अवसरे आयोजिता कथा अस्माकं भगवतः रामस्य जीवनस्य विषये अधिकं ज्ञानं प्रददाति। अत्र अतीव भव्यम् आयोजनम् अभवत्। सः सर्वान् जनान् अनुरोधितवान् यत् भगवतः श्रीरामस्य जीवनात् शिक्षां गृह्णीयुः।
हिन्दुस्थान समाचार / अंशु गुप्ता