केंद्रीयविद्यालये बीजापरे प्रवेशाय द्वितीय-अप्रैलमासपर्यन्तं आवेदनानि आमन्त्रितानि
बीजापुरनगरम्, 26 मार्चमासः (हि.स.) – केंद्रीयविद्यालये बीजापुरे शैक्षणिकसत्रे 2026-27 कक्षायाः प्रथमतः पंचमपर्यन्तं प्रवेशप्रक्रिया आरब्धा। कक्षा-प्रथमाय 80 आसनानां कृते अन्तर्जाल-पञ्जीकरणम् अनिवार्यं, कक्षा-द्वितीयातः पंचमीपर्यन्तं (प्रत्येके 40
केन्द्रीय विद्यालय बीजापुर


बीजापुरनगरम्, 26 मार्चमासः (हि.स.) – केंद्रीयविद्यालये बीजापुरे शैक्षणिकसत्रे 2026-27 कक्षायाः प्रथमतः पंचमपर्यन्तं प्रवेशप्रक्रिया आरब्धा।

कक्षा-प्रथमाय 80 आसनानां कृते अन्तर्जाल-पञ्जीकरणम् अनिवार्यं, कक्षा-द्वितीयातः पंचमीपर्यन्तं (प्रत्येके 40 आसनानि) अभिभावकैः विद्यालयं गत्वा ऑफलाइन-पञ्जीकरणं कर्तव्यम्। पञ्जीकरणस्य अवधी द्वितीय-अप्रैलमासस्य मध्याह्न 1 वादनपर्यन्तं प्रवर्तते।

प्रबन्धनेन समयसीमायाः अन्तर्गतम् आवेदनं कर्तुम् अभिभावकानां कृते आह्वानं कृतम्, यतः बालकाः गुणवत्तायुक्तशिक्षायाः लाभं प्राप्स्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता