Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २६ मार्चमासः (हि.स.)। पश्चिम-एशिया-संकटस्य मध्ये टाटा-नेतृत्वयुक्ते एयर-इण्डिया तथा एयर-इण्डिया-एक्सप्रेस संयुक्तरूपेण अद्य (२६ मार्चमासे) अस्मात् क्षेत्रात् आगच्छन्त्यः गच्छन्त्यश्च ३२ नियताः अनियताश्च विमान-सेवाः संचालयिष्यतः।
एयर-इण्डिया गुरुवासरे ‘एक्स’-इति सञ्चार-माध्यमे प्रदत्तसूचनायां उक्तवती यत् एयर-इण्डिया तथा एयर-इण्डिया-एक्सप्रेस संयुक्तरूपेण २६ मार्चमासे पश्चिम-एशिया-क्षेत्रात् आगच्छन्त्यः गच्छन्त्यश्च समग्रतया ३२ नियताः अनियताश्च विमान-सेवाः संचालयिष्यतः। उभे अपि विमान-सेवा-संस्थे जेद्दाह-नगरात् आगमन-गमनयोः स्व-स्व-नियत-सेवाः निरन्तरं धारयिष्यतः, यस्मिन् भारत-जेद्दाह-मध्ये समग्रतया १० विमानानि समाविष्टानि भविष्यन्ति।
निर्माण्या उक्तं यत् एतेषु एयर-इण्डिया दिल्ली-नगरात् एकां प्रत्यावर्तन-सेवां तथा मुम्बई-नगरात् द्वे प्रत्यावर्तन-सेवे संचालयिष्यति, यदा तु एयर-इण्डिया-एक्सप्रेस कोषिकोड-नगरात् मङ्गलूरु-नगरात् च एकैकां सेवां संचालयिष्यति। अपरं एयर-इण्डिया-एक्सप्रेस मस्कट-नगरात् आगमन-गमनयोः ०४ नियत-विमानानि संचालयिष्यति, येषु दिल्ली-मुम्बई-नगरयोः सेवाः समाविष्टाः भविष्यन्ति। तदनन्तरं कोषिकोड-नगरात् रियाद-नगरं प्रति ०२ नियत-विमानानि अपि संचालयिष्यन्ते। एयर-इण्डिया अपि रियाद-नगरात् आगमन-गमनयोः ०४ नियत-विमानानि संचालयिष्यति, येषु दिल्ली-मुम्बई-नगरयोः सेवाः समाविष्टाः सन्ति।
अतिरिक्तानि अनियत-विमानानि
विमान-सेवा-संस्थायाः अनुसारं नियत-सेवानां अतिरिक्तं एयर-इण्डिया तथा एयर-इण्डिया-एक्सप्रेस संयुक्त-आरब-अमीरात-देशात् आगमन-गमनयोः समग्रतया १२ अनियत-उड्डयनानि अपि संचालयिष्यतः, ये प्रस्थान-केन्द्रेषु क्रम-उपलब्धतायाः तथा अन्यासां वर्तमान-परिस्थितिनां आधारेण निर्भराः भविष्यन्ति। एतानि विमानानि सम्बद्ध-भारतीय-स्थानीय-नियामक-प्राधिकरणेभ्यः आवश्यक-अनुमतयः प्राप्य एव संचालयिष्यन्ते।
निर्माण्या प्रकाशित-वक्तव्ये उक्तं यत् यात्रिभ्यः परामर्शः दीयते यत् ते एयर-इण्डिया अथवा एयर-इण्डिया-एक्सप्रेस-इत्यनयोः जालपुटेन अथवा मोबाइल-अनुप्रयोगेन नवीनतम-उड्डयन-स्थितिं परीक्षेरन्, यतः एताः सेवाः परिचालन-परिस्थितिनाम् अधीनाः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता