दिल्लीस्थे अक्षरधाम मंदिरे पूर्णेन विधि-विधानेन स्थापिता नीलकंठ वर्णीया 108 फुटमिता उन्नता प्रतिमा
नव दिल्ली, 26 मार्चमासः (हि.स.)। दिल्ली-नगरस्य अक्षरधाम-मन्दिरे भगवान् स्वामिनारायणस्य बाल-तपस्वि-स्वरूपं प्रतिनिधित्वं कुर्वती नीलकण्ठवर्णिनः पञ्चधातु-निर्मिता अष्टोत्तरशत-फुट-उन्नता प्रतिमा-प्राणप्रतिष्ठा-समारोहः गुरुवासरे सम्पन्नः। प्राणप्रतिष्ठ
ककक


ककक


नव दिल्ली, 26 मार्चमासः (हि.स.)। दिल्ली-नगरस्य अक्षरधाम-मन्दिरे भगवान् स्वामिनारायणस्य बाल-तपस्वि-स्वरूपं प्रतिनिधित्वं कुर्वती नीलकण्ठवर्णिनः पञ्चधातु-निर्मिता अष्टोत्तरशत-फुट-उन्नता प्रतिमा-प्राणप्रतिष्ठा-समारोहः गुरुवासरे सम्पन्नः। प्राणप्रतिष्ठा महन्तस्वामिमहाराजस्य सान्निध्ये वैदिक-विधिभिः अनुष्ठानैः सह सम्पन्ना। अस्मिन् समारोहे देश-विदेशात् आगताः श्रद्धालवः सहभागी अभवन्।

अद्य प्रातः षड्वादने अक्षरधाम-परिसरे नीलकण्ठवर्णिनः प्रतिष्ठा-अनुष्ठानानां शुभारम्भः अभवत्, यः प्राचीन-वैदिक-परम्परानुसारं पूर्ण-श्रद्धया पवित्रतया च सम्पन्नः। अन्ये अनुष्ठानाः मार्च-मासस्य पञ्चविंशतितमे दिने एव आरब्धाः आसन्। बुधवासरे महन्तस्वामिमहाराजस्य उपस्थितौ विश्व-शान्ति-महायज्ञः आयोजितः, यस्मिन् बहवः श्रद्धालवः सहभागी अभवन्। शान्तेः प्रतीकत्वेन श्वेत-कपोताः आकाशे विमोचिताः, पश्चिम-एशिया-प्रदेशे युद्धविरामस्य प्रार्थना च कृता।

प्राणप्रतिष्ठोत्तरं महन्तस्वामिमहाराजः उक्तवान् यत् एषा प्रतिमा अत्यन्त-सुन्दरी अस्ति तथा सा समग्रे विश्वे शान्तेः प्रसारं करिष्यति। यः कश्चित् अत्र आगत्य नीलकण्ठवर्णिनः दर्शनं करिष्यति, सः सद्गुण-प्रेरणां लप्स्यते, कल्याणं च प्राप्स्यति। एषा प्रतिमा श्रद्धालूनां भावनाः शुभ-मनोकामनाः च अपि पूरयिष्यति। अक्षरधाम-परिसरे स्थापितेयं अष्टोत्तरशत-फुट-उन्नता प्रतिमा श्रद्धा, संयमः तथा आध्यात्मिक-साधनायाः शक्तिशाली प्रतीकः अस्ति। नीलकण्ठवर्णिनः एषा मूर्तिः एकेन पादेन स्थित्वा गाढ-ध्यान-मुद्रायां तं दर्शयति।

तपोमूर्ति नीलकण्ठवर्णी कः?

भगवान् स्वामिनारायणः केवलम् एकादश-वर्षीयः सन् गृहम् त्यक्त्वा मानव-कल्याणाय सम्पूर्ण-भारतदेशे आध्यात्मिक-यात्रां आरब्धवान्। सप्त-वर्षेषु सः प्रायः द्वादश-सहस्र-किलोमीटर-पर्यन्तं यात्रां कृतवान्। सः बद्रीनाथ, केदारनाथ, कैलास-मानसरोवर, मुक्तिनाथ, कामाख्या, जगन्नाथपुरी, रामेश्वरम्, नासिक, पंढरपुर तथा द्वारका इत्यादीनि तीर्थस्थानानि परिभ्रम्य। अस्य यात्राकाले सः ‘नीलकण्ठवर्णी’ इति नाम्ना प्रसिद्धः अभवत्।

प्रतिमायाः विशेषताः

• एषा प्रतिमा एकेन पादेन स्थित्वा अडिगा विश्वे सम्भवतः अद्वितीया विशाल-प्रतिमा अस्ति। सा अष्ट-फुट-उन्नते पृष्ठतले स्थापिता अस्ति।• अस्याः निर्माणे प्रायः एक-वर्षकालः यापितः, पञ्चधातुना निर्मिता, यस्मिन् मुख्यतः कांस्य-धातोः उपयोगः कृतः।• अस्य निर्माणे अक्षरधामस्य शिल्पिनः सन्तः तथा प्रायः पञ्चाशत् कारीगराः सहयोगं कृतवन्तः।• एषा प्रतिमा पुलहाश्रमे नीलकण्ठवर्णिना चतुर्मासं यावत् एकपादेन स्थित्वा कृततपस्याः प्रतीकत्वं दर्शयति। ---------------

हिन्दुस्थान समाचार