अशोकाष्टम्यां मुख्यमन्त्री डॉ.सरमा शुभाशंसाः अयच्छत्
गुवाहाटीनगरम्, २६ मार्चमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा अशोकाष्टम्याः पावन-अवसरे गुरुवासरे राज्यवासिभ्यः हार्दिकाः शुभाशंसाः अयच्छत्। स्व-सन्देशे मुख्यमन्त्री अवदत् यत् चैत्र-मासस्य शुक्ल-पक्षस्य अष्टमी-तिथौ आचर्यमाणम् एतत् प
The image shared by Assam CM Dr Himanta Biswa Sarma


गुवाहाटीनगरम्, २६ मार्चमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा अशोकाष्टम्याः पावन-अवसरे गुरुवासरे राज्यवासिभ्यः हार्दिकाः शुभाशंसाः अयच्छत्।

स्व-सन्देशे मुख्यमन्त्री अवदत् यत् चैत्र-मासस्य शुक्ल-पक्षस्य अष्टमी-तिथौ आचर्यमाणम् एतत् पवित्रं पर्व गम्भीराम् आध्यात्मिक-सांस्कृतिक-महत्त्वं वहति। अस्मिन् दिने श्रद्धालवः ब्रह्मपुत्र-नद्यां पवित्र-स्नानं कृत्वा अशोक-पुष्पाणि समर्पयन्ति तथा शोक-दुर्भाग्याभ्यां मुक्तये प्रार्थनां कुर्वन्ति।

तेन उक्तं यत् एतत् पर्व अस्माकं आस्था-परम्परा-आध्यात्मिक-मूल्यानां प्रतीकम् अस्ति। अस्मिन् अवसरे मुख्यमन्त्री ईश्वरात् सर्वेषां कृते शान्ति-सुख-समृद्धिनां कामनां कृतवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता