श्रीराम जन्मभूमि स्थिते सूर्य मन्दिरे जातं ध्वजारोहणम्
-भगवतश्श्रीरामस्य कुल देवतायाः मंदिरं संजातं ध्वजारोहणम् -सूर्य मंदिरस्य शिखरे सद्भिः विहितं ध्वजारोहणम् अयोध्या, 26 मार्चमासः (हि.स.)। नवरात्र्याः अष्टम्यां गुरुवासरे श्रीराम जन्मभूमि मन्दिर परिसरस्थे सूर्य-मन्दिरे शिखरे विधिपूर्वकं ध्वजार
सूर्य मन्दिर का ध्वज आरोहण


सूर्य मन्दिर का ध्वज आरोहण


सूर्य मन्दिर का ध्वज आरोहण


सूर्य मन्दिर का ध्वज आरोहण


-भगवतश्श्रीरामस्य कुल देवतायाः मंदिरं संजातं ध्वजारोहणम्

-सूर्य मंदिरस्य शिखरे सद्भिः विहितं ध्वजारोहणम्

अयोध्या, 26 मार्चमासः (हि.स.)।

नवरात्र्याः अष्टम्यां गुरुवासरे श्रीराम जन्मभूमि मन्दिर परिसरस्थे सूर्य-मन्दिरे शिखरे विधिपूर्वकं ध्वजारोहणं कृतम्।

मन्दिरस्य प्रवेशद्वारात् वामभागे परकोटस्य नैऋत्यकोणे स्थितस्य सूर्य-मन्दिरस्य एकोनविंशतिः फुट् सप्ताङ्गुलपरिमिते ध्वजदण्डे नवफुट् त्र्यङ्गुलदीर्घा ध्वजा स्थापिताऽभवत्, यस्याः विस्तारः चतुर्फुट् सप्ताङ्गुलः अस्ति। भगवावर्णायां ध्वजायां ‘ॐ’ इति चिह्नं लिखितम् अस्ति।

अस्मिन् ध्वजारोहण-समारोहे दशरथ-महलस्य महन्तः बिन्दुगद्याचार्यः स्वामी देवेन्द्रप्रसादाचार्य महाराजः, रंग-महलस्य महन्तः रामशरणदास महाराजः, श्रीरामवल्लभ-कुञ्ज-अधिकारी सन्तः राजकुमारदासः, बावनजी-मन्दिरस्य महन्तः वैदेहीवल्लभशरण महाराजः, अशर्फी-भवनस्य जगद्गुरुः रामानुजाचार्यः श्रीधराचार्य महाराजः, ट्रस्ट-कोषाध्यक्षः स्वामी गोविन्ददेवगिरि महाराजः, सीताकान्त-सदनस्य महन्तः रामानुजशरण ब्रह्मचारी महाराजः, समिति-सदस्यः डॉ. अनिलमिश्रः, गोपालनागरकट्टे, सुरक्षा-अधिकारी बलरामाचार्य दुबे, जगदीश आफले, तीर्थ-क्षेत्र-भवनस्य सह-प्रभारी प्रद्युम्नसिंहः च उपस्थिताः आसन्।

उल्लेखनीयम् अस्ति यत् २५ नवम्बर् २०२५ तिथौ देशस्य प्रधानमन्त्रिणा मन्दिरस्य शिखरे ध्वजारोहणं कृत्वा मन्दिरस्य पूर्णतायाः संदेशः दत्तः। ततः अनन्तरं ३१ दिसम्बर् २०२५ तिथौ प्रतिष्ठा-द्वादश्यां रक्षामन्त्रिणा परकोटस्थे अन्नपूर्णा-मन्दिरे ध्वजारोहणं कृतम्।

ततः अद्य परकोटस्थे सूर्य-मन्दिरे अपि अयोध्यायाः प्रमुख-साधु-सन्तानां उपस्थितौ ध्वजारोहणं सम्पन्नम्।

राममन्दिर-समितेः विशेष-आमन्त्रितः सदस्यः गोपालरावः अवदत् यत् राममन्दिर-परिसरे समग्रतः अष्टौ शिखराणि सन्ति, येषु द्वयोः मन्दिरयोः शिखरेषु ध्वजारोहणं सम्पन्नम्।

एतदपि उल्लेखनीयम् यत् शुक्रवासरे (२७ मार्च) श्रीराम नवमी अर्थात् जन्मोत्सव-दिने रामजन्मभूमौ विराजमानस्य रामललस्य विग्रहं भगवान् सूर्यः तिलकं करिष्यति।

हिन्दुस्थान समाचार